________________
तत्त्वबोधविधायिनी व्याख्या ।
१७७
ध्ये साध्यविकलो दृष्टान्तः, हेतुश्च विरुद्धः, असर्वज्ञकर्तृपूर्वकत्वेन कुम्भादेः कार्यस्य व्याप्तिदर्शनात् ; किञ्चिज्ज्ञपूर्वकत्वे साध्येऽभ्युपेतबाधा ; कारणमात्रपूर्वकत्वे साध्ये कर्मणा सिद्धसाधनमिति । यतः सामान्येन खकार्योपादानोपकरणसंप्रदानाभिज्ञकर्तृपूर्वकत्वं साध्यते, तत्र चास्येव वस्त्रादिदृष्टान्तः । तस्य ह्युपादानोपकरणाद्यभिज्ञकर्तृपूर्वकत्वं सकललोकप्रसिद्धम्, कथमन्यथाकर्तुं शक्यते, अपह्नोतुं वा ? । न तु कर्मणा सिद्धसाध्यता । तस्य सकलजगल्लक्षणकार्योपादानाद्यनभिज्ञत्वात् । तदभिज्ञत्वे वा तस्यैव भगवतः कर्म इति नामान्तरं कृतं स्यात् । शेषं त्वत्र चिन्तितमेव । तदेवं सकलदोषरहितादुक्तहेतुकलापात् ज्ञानाद्यतिशयवद्गुणयुक्तस्य सिद्धेः, तस्य च शासनप्रणेतृत्वं नान्येषां योगिनामिति भवजिनानां शासनमित्ययुक्तमुक्तमिति स्थितम् । इति पूर्वपक्ष: ॥
अत्र प्रतिविधीयते । यत्तावदुक्तम् - सामान्यतो दृष्टानुमानस्य तत्र व्यापाराभ्युपगमात् प्रत्यक्षपूर्वकानुमाननिषेधे सिद्धसाधनमिति । तदसङ्गतम् । सामान्यत दृष्टानुमानस्यापि तत्साधकत्वेनाप्रवृत्तेः। तथाहि । तनुभुवनकरणादिकं बुद्धिमत्कारपूर्वकं कार्यवाडटादिवदित्यत्र धर्म्यसिद्धेराश्रयासिद्धस्तावत् कार्यवलक्षणो हेतुः । तथाहि। अवयविरूपं तावत् तन्वादि अवभासमानम्, तत्तु न युक्तम् । देशादि - भिन्नस्य तन्वादेः स्थूलस्यैकस्यानुपपत्तेः । नह्यनेकदेशादिगतमेकं भवितुं युक्तम् । विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्, देशादिभेदस्य च विरुद्धधर्मरूपत्वात् । तथाप्यभेदे सर्वत्र भिन्नलेनाभ्युपगते घटपटादावपि भेदोपरतिप्रसङ्गात् । नहि भिन्नत्वेनाभ्युपगते तत्राप्यन्यद्भेदनिबन्धनमुत्पश्यामः । प्रतिभासभेदात् तत्र भेद इति चेत् । न । विरुद्धधर्माध्यासं भेदकमन्तरेण प्रतिभासस्यापि भेदानुपपत्तेः । अथावयव्येको न भवति विरुद्धधर्माध्यासितत्वादित्येतत् किं खतन्त्रसाधनम्, उत प्रसङ्गसाधनमिति । न तावत् स्वतन्त्रसाधनं युक्तम् । अवयविनः प्रमाणासिद्धत्वेन हेतोराश्रयासिद्धत्वदोषात् । प्रमाणसिद्धत्वे वा तत्प्रतिपादकप्रमाणबाधितपक्षनिर्देशानन्तरप्रयुक्तत्वेन तस्य कालात्ययापदिष्टत्वदोषदुष्टत्वात् । नच परस्यावयवी सिद्ध इति नाश्रयासिद्धत्वदोष इति वक्तुं युक्तम् । यतः, परस्य किं प्रमाणतोऽसौ सिद्धः, उताप्रमाणतः । प्रमाणतश्चेत्, तर्हि भवतोऽपि किं न सिद्ध: । प्रमाणसिद्धस्य सर्वान्
२३