________________
१७८
सम्मतिताख्यप्रकरणस्यप्रत्यविशेषात् । तथाच तदेव कालात्ययापदिष्टत्वं हेतोः । अथाप्रमाणतः, तदा न परस्यापि सिद्ध इति पुनरप्याश्रयासिद्धत्वम्। तन्न प्रथमः पक्षः । नापि द्वितीयः । यतः व्याप्याभ्युपगमो यत्र व्यापकाभ्युपगमनान्तरीयकः प्रदर्श्यते, तत्प्रसङ्गसाध. नम् । नच परस्यभेदविरुद्धधर्माध्यासयोर्व्याप्यव्यापकभावः सिद्धः । देशादिभेदलक्षणविरुद्धधर्माध्यासाभावेऽपि रूपरसयोर्भेदाभ्युपगमात् । तद्भावेऽपि सामान्यादावभेदस्य प्रमाणसिद्धत्वादिति न वक्तव्यम्। यतः प्रथमः पक्षस्तावदनभ्युपगमा. देव निरस्तः। प्रसङ्गसाधनपक्षे तु यद् दूषणमभिहितम्-देशभेदलक्षणविरुद्धधर्माध्यासाभावेऽपि रूपरसयोर्भेद इति; तयाप्यव्यापकभावापरिज्ञानं सूचयति, न पुन
प्प्यव्यापकभावाभावम् । यतो देशभेदे सति यद्यभेदः क्वचित्सिद्धः स्यात् , तदा व्यापकाभावेऽपि विरुद्धधर्माध्यासस्य भावान्न तस्य तेन व्याप्तिः स्यात् । यदातु देशाभेदेऽपि रूपरसयोर्भेदः, तदा देशभेदो भेदव्यापको न स्यात्, न पुनरेतावता भेदो विरुद्धधर्माध्यासव्यापको न स्यात्। यदि हि भेदव्यावृत्तावपि देशादिभेदो न ब्यावर्तेत, तदा व्यापकव्यावृत्तावपि व्याप्यस्याव्यावृत्तेर्न भेदेन देशादिविरुद्धधर्माध्यासो व्याप्येत। न चैतत् क्वचिदपि सिद्धम् । यत्तु सामान्यादावभेदस्य प्रमाणतः सिद्धर्भेदव्यावृत्तावपि न देशादिभेदलक्षणस्य विरुद्धधर्माध्यासस्य निवृत्तिरिति। तदयुक्तम् । सामान्यादेः प्रमाणतोऽभिन्नरूपस्यासिद्धेः । उक्तं च। यदि विरुद्धधर्माध्यासः पदार्थानां भेदको न स्यात् , तदाऽन्यस्य तद्भेदकस्याभावाद्विश्वमेकं स्यात् । प्रतिभासभेदस्यापि तमन्तरेण भेदव्यवस्थापकस्याभावादिति व्याप्यव्यापकभावसिद्धेः कथं न प्रसङ्गसाधनस्यात्रावकाशः । अथैकत्वप्रतिभासाद्देशादिभेदेऽपि तन्वादेरेकता।न।देशभेदेन व्यवस्थितानामवयवानां प्रतिभासभेदेन भेदात् ।न ह्येकरूपा भागा भासन्ते, पिण्डस्याणुमात्रताऽऽपत्तेः, तद्व्यतिरिक्तस्य चापरस्य तन्वाद्यवयविनो द्रव्यस्योपलब्धिलक्षणप्राप्तस्यानुपलम्भेनासत्त्वात्।नच तस्योपलब्धिलक्षणप्राप्तता परैर्नाभ्युपगम्यते । “महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः" इति वचनात्। तत्सिद्धमनुपलब्धरुपलब्धिलक्षणप्राप्तस्येति विशेषणम्।न च मध्यो - दिभागव्यतिरिक्तवपुर्बहिर्लाह्याकारतां बिभ्राणस्तन्वादिद्रव्यात्मा दर्शने चकास्तीत्यनुपलब्धिरपि सिद्धा। न च समानदेशवादवयविनोऽवयवेभ्यः पृथगनुपलक्षण