________________
तत्त्वबोधविधायिनी व्याख्या।
१७९ मिति वक्तुं शक्यम् । समानदेशवादिति विकल्पानुपपत्तेः। तथाहि । समानदेशखमवयवावयविनोः किं पारिभाषिकम् , लौकिकं वा । यदि पारिभाषिकम् । तद. नुहोष्यम्। परिभाषाया अत्रानधिकारात्। न च तत् तत्र भवदभिप्रायेण सिद्धम् । तथाहि । अन्य एव पाण्यादय आरम्भका देशास्तन्वाद्यवयविनो भवद्भिः परिभाष्यन्ते, अन्ये च पाण्यादीनां तदवयवानामारम्भका देशाः। आरभ्यारम्भकवादनिषेधात्।तन्न पारिभाषिकं समानदेशत्वम्। नापि लौकिकम्।आकाशस्य लोकप्रसिद्धस्य समानदेशस्यास्मान् प्रति असिद्धत्वात् । प्रकाशादिरूपस्य च देशस्य तत्सिद्धस्य समानत्वेऽपि भिन्नानां वाताऽऽतपादीनां भेदेनोपलब्धेः। तथाहि । समानदेशा अपि भावा वाताऽऽतपादयो भिन्नतनवः पृथक् प्रथन्ते, नचैवमवयविनिर्भासः। तन्नावयवी तन्वादिभिन्नोऽस्ति । अथ मन्दमन्दप्रकाशे अवयवप्रतिभासमन्तरेणाप्यवयविनि प्रतिभास उपलभ्यते, तत्कथं प्रतिभासाभावात् तस्याभावः?।असदेतत् । नहि तथाभूतोऽस्पष्टप्रतिभासोऽवयविस्वरूपव्यवस्थापको युक्तः । तत्प्रतिभासस्यास्पष्टरूपस्य स्पष्टज्ञानावभासितत्स्वरूपेण विरोधात् । अथ स्वरूपद्वयमेतदवयविनः स्पष्टम् , अस्पष्टं च । तत्रास्पष्टं मन्दालोकज्ञानविषयः; स्पष्टं तु सालोकज्ञानभूमिः। नन्वेतत् खरूपद्वयं केनावयविनो गृह्यते ?। न तावन्मन्दालोकज्ञानेन । तत्र सालोकज्ञानविषयस्पष्टरूपानवभासनात् । अस्पष्टतत्स्वरूपप्रतिभासं हि तदनुभूयते । नापि सालोकज्ञानेन स्पष्टतत्स्वरूपावभासिना। तत्र मन्दालोकज्ञानावभासिततस्वरूपानवभासनात् । नहि परिस्फुटप्रतिभासवेलायामविशदरूपाकारोऽवयव्यर्थः प्रतिभाति, तत्कथमसावयविनः स्वरूपम् । अथ मन्दालोकदृष्टमवयविनः खरूपं परिस्फुटमिदानीं पश्यामीति तयोरेकता । ननु किमपरिस्फुटरूपतया परिस्फुटं रूपं अवगम्यते, आहोखित परिस्फुटतयाऽपरिस्फुटम् । तत्र यद्याद्यः पक्षः, तदाऽपरिस्फुटरूपसंबन्धित्वमेवावयविनः प्राप्नोति । परिस्फुटस्य रूपस्यास्फुटरूपताऽनुप्रवेशेन प्रतिभासनात् । अथ द्वितीयः पक्षः । तथा सति स्पष्टखरूपसंबन्धित्वमेव । अस्पष्टस्य विशदस्वरूपानुप्रविष्टलेन प्रतिभासनात् । तन्न स्वरूपढयावगमोऽवयविनः। एकलप्रतिभासनं तु प्रतिभासरहितमभिमानमात्रं स्पष्टास्पष्टरूपयोः । अन्यथा सालोकज्ञानवन्मन्दालोकज्ञानमपि परिस्फुट