________________
१८०
सम्मतितकाख्यप्रकरणस्यप्रतिभासं स्यात् । अथालोकभावाभावकृतस्तत्र स्पष्टास्पष्टप्रतिभासभेदः । नन्वालोकेनाप्यवयविस्वरूपमेवोद्भासनीयम्। तच्चेत् , अविकलं मन्दालोके प्रतिभाति, कथं न तत्र तदवभासकृतः स्पष्टावभासः?। अन्यथा विषयावभासव्यतिरेकेणापि ज्ञानप्रतिभासभेदेन ज्ञानावभासभेदो रूपरसयोरपि भेदव्यवस्थापकः स्यात् । अथावयविखरूपमेकमेवोभयत्र प्रतीयते, व्यक्ताव्यक्ताकारौ तु ज्ञानस्यात्मानावित्युच्येत। तदप्यसत्। यतो यदि ज्ञानाकारौ तौ, कथमवयविरूपतया प्रतिभातः तद्रूपतया च प्रतिभासनादवयव्याकारौ तावभ्युपगन्तव्यौ । नहि व्यक्तरूपतामध्यक्तरूपतां च मुक्त्वा अवयविस्वरूपमपरमाभाति । तत्तस्यानवभासादभाव एव । व्यक्ताव्यक्तैकात्मनश्वावयविनो व्यक्ताव्यक्ताकारवद् भेदः । नहि प्रतिभासभेदेऽप्येकता। अतिप्रसङ्गात् । तन्नास्पष्टप्रतिभासमन्धकारेऽवयविनो रूपमवयवाप्रतिभासेऽपि प्रतिभातीति वक्तुं युक्तम् । उक्तदोषप्रसङ्गात् । किंच । किं कतिपयावयवप्रतिभासे सत्यवयवी प्रतिभातीत्यभ्युपगम्यते, आहोस्वित् समस्तावयवप्रतिभासे । यद्याद्यः पक्षः । स न युक्तः । जलमममहाकायस्तम्भादेरुपरितनकतिपयावयवप्रतिभासेऽपि समस्तावयवव्यापिनः स्तम्भाद्यवयविनोऽप्रतिभासनात्। अथ द्वितीयः पक्षः। सोऽपि न युक्तः । मध्यपरभागवर्तिसमस्तावयवप्रतिभासासंभवेनावयविनोऽप्रतिभासप्रसङ्गात्।अथ भूयोऽवयवग्रहणे सत्यवयवी गृह्यत इत्यभ्युपगमः। सोऽपि न युक्तः। यतोऽर्वाग्भागभाव्यवयवग्राहिणा प्रत्यक्षेण परभागभा. व्यवयवाग्रहणात् ।न तेन तद्याप्तिरवयविनो ग्रहीतुं शक्या । व्याप्याग्रहणे तेन तयापकवस्यापि ग्रहीतुमशक्तेः। ग्रहणे वाऽतिप्रसङ्गः । तथाहि । यद्येन रूपेणाव. भाति तत्तेनैव रूपेण सदिति व्यवहारविषयः। यथा नीलं नीलरूपतया प्रतिभासमानं तेनैव रूपेण तद्विषयः, अर्वाग्भागभाव्यवयवसंबन्धितया चाऽवयवी प्रतिभातीति स्वभावहेतुः। नच परभागभाविव्यवहितावयवाऽप्रतिभासनेऽप्यव्यवहितोऽ. वयवी प्रतिभातीति वक्तुं शक्यम् । तदप्रतिभासने तद्तत्वेनाप्रतिभासनात् । यस्मिश्व प्रतिभासमाने यद्पं न प्रतिभाति, तत्ततो भिन्नम् । यथा घटे प्रतिभासमाने ऽप्रतिभासमानं पटस्वरूपम्।न प्रतिभाति च अर्वाग्भागभाव्यवयवसंबन्ध्यवयविखरूपे प्रतिभासमाने परभागभाव्यवयवसंबन्ध्यवयविस्वरूपम् ; इति कथं न तत्त