________________
तत्त्वबोधविधायिनी व्याख्या ।
१८१ तोभिन्नम् ?।तथाऽप्यभेदेऽतिप्रसङ्गःप्रतिपादितः । नापि परभागभाव्यवयवावयवि. ग्राहिणा प्रत्यक्षेणार्वाग्भागभाव्यवयवसंबन्धित्वं तस्य गृह्यते।तत्र तदवयवानांप्रतिभासात्तत्संबन्ध्येवावयविस्वरूपं प्रतिभासेत, नार्वाग्भागभाव्यवयवसंबन्धि । तेषां तत्राप्रतिभासनात् । तदप्रतिभासने च तत्संबन्धिरूपस्याप्यप्रतिभासनात; . व्याप्याप्रतिपत्तौ तद्व्यापकत्वस्याप्यप्रतिपत्तेः । नापि स्मरणेनार्वापरभागभाव्यवयवसंबन्ध्यवयघिस्वरूपग्रहः । प्रत्यक्षानुसारेण स्मरणस्य प्रवृत्त्युपपत्तेः । प्रत्यक्षस्य च तद्राहकत्वनिषेधात् । नाप्यात्माऽर्वाक्परभागावयवव्यापित्वमवयविनो ग्रहीतुं समर्थः । सत्तामात्रेण तस्य तद्राहकलानुपपत्तेः । अन्यथा स्वाप-मद-मूर्छाद्यवस्थास्वपि तत्प्रतिपत्तिप्रसङ्गात् । किन्तु दर्शनसहायः, तच्च दर्शनं नावयविनोऽवयवव्याप्तिग्राहकं प्रत्यक्षादिकं संभवतीति प्रतिपादितम् । अथार्वाग्भागदर्शने सत्युत्तरकालं परभागदर्शनेऽनन्तरस्मरणसहकारीन्द्रियजनितं स एवायमिति प्रत्यभिज्ञाज्ञानमध्यक्षमवयविनः पूर्वापरावयवव्याप्तिग्राहकम् । तदयुक्तम् । प्रत्यभिज्ञाज्ञानस्यैतद्विषयस्य प्रत्यक्षत्वानुपपत्तेः । अक्षानुसारि हि प्रत्यक्षम् । नचाक्षाणामाक्परभागभाव्यवयवग्रहणे व्यापारः संभवति । व्यवहिते तेषां व्यापारासंभवात् । संभवे वाऽतिव्यवहितेऽपि मेरुपृष्ठादौ व्यापारः स्यात् । तन्न तदनुसारिणोऽध्यक्षरूपस्य प्रत्यभिज्ञाज्ञानस्य तत्र व्यापारः । नच स्मरणसहायस्यापीन्द्रियस्याविषये व्यापारः संभवति । यद्यस्याविषयः न तत्तत्र स्मरणसहायमपि प्रवर्त्तते, यथा परिमलस्मरणसहायमपि लोचनं गन्धादौ । अविषयश्च व्यवहितोऽक्षाणां परभागभाव्यवयवसंबन्धित्वलक्षणोऽवयविनः स्वभाव इति नाक्षजस्य प्रत्यभिज्ञाज्ञानस्यावयविस्वरूपग्राहकत्वम्। नच स एवायमिति प्रतीतिरेका।स इति स्मृतेः रूपम् , अयमिति तु दृशः स्वरूपम् । तत्परोक्षापरोक्षाकारत्वात् नैकखभावावेतौ प्रत्ययौ । अथ स एवायमित्येकाधिकरणतया एतौ प्रतिभात इति एकं प्रत्यभिज्ञाज्ञानम्, आकारभेदे सति दर्शनस्मरणयोरिव सामानाधिकरण्याध्यवसायेऽप्येकत्वानुपपत्तेः। अन्यत्राप्याकारभेद एव भेदः; स चात्रापि विद्यत इति कथमेकत्वम् ? । किञ्च । स इत्याकारोऽयमित्याकारानुप्रवेशेन प्रतिभाति, आहोखिदननुप्रवेशेनेति। यद्यनुप्रवेशेनेति स इत्याकारस्यावमित्याकारे अनुप्रविष्ट