________________
१८२
सम्मतिताख्यप्रकरणस्यबादभाव इत्ययमित्याकार एव केवलः प्राप्त इति कुतः सोऽयमित्येका प्रत्यभिज्ञा?। अथायमित्याकारः स इत्येतस्मिन्ननुप्रविष्टः, तदा स इत्येव प्राप्तौ नायमित्यपीति कथमेका प्रत्यभिज्ञा ? । अथ स एवायमित्याकारौ परस्पराननुप्रविष्टौ प्रतिभातः, तथापि भिन्नाकारौ भिन्नविषयौ च द्वौ प्रत्ययाविति कथमेकार्थेका प्रत्यभिज्ञा ? । प्रतिभासभेदस्य विषयभेदव्यवस्थापकलात् । नच प्रतिभासभेदेऽपि विषयाभेदः। प्रतिभासाभेदव्यतिरेकेण विषयाभेदव्यवस्थायां प्रमाणं विना प्रमेयाभ्युपगमः स्यात् ; तथाच सर्व सर्वस्य सिद्येत् । तन्न प्रत्यभिज्ञातोऽप्यवयव्येकत्वग्रहः । अनुमानस्य च अवयविस्वरूपग्राहकस्य प्रत्यक्षनिषेधे तत्पूर्वकस्य निषेधः कृत एव । सामान्यतो दृष्टस्य चावयविप्रतिषेधप्रस्तावे निषेधो विधास्यत इत्यास्तां तावत् । अथैको घट इति द्रव्यप्रतीतिरस्ति तदवयवव्यतिरेकिणी, तत्कथमभावोऽवयविनः ?। न । घटावसायेऽपि तदवयवाध्यवसायः, नामोल्लेखश्चाध्यवसीयते नावयविद्रव्यम् । वर्णाकृत्यक्षराकारशून्यस्य तद्रूपस्य केनचिदप्यननुभवात् । वर्णाकृत्यक्षराकारशून्यं चावयविस्वरूपमभ्युपगम्यते । नच तेन रूपेण कल्पनाज्ञानेऽपि तत्प्रतिभाति । नचान्याकारः प्रतिभासोऽन्याकारस्य वस्तुखरूपस्य व्यवस्थापकः । अन्यथा नीलप्रतिभासः पीतस्य व्यवस्थापकः स्यादिति न वस्तुव्यवस्था स्यात् । तस्मात् न कल्पनोल्लिख्यमानवपुरप्यवयवी बहिरस्ति । केवलमनादिरयमेकत्वव्यवहारो मिथ्यार्थः । नच व्यवहारमात्राबाहिरके वस्तु सिध्यति । नीलादीनां स्वभाव इत्यत्रापि व्यवहाराभेदादेकताप्राप्तेः स्वभावस्य । अथ तत्र प्रतिनीलादिखभावं दर्शनभेदादेकवं बाध्यते, इहापि तर्हि बहीरूपस्यो
ह्यधोमध्यादिनि सस्य भेदादेकता तन्वादीनां प्रतिदलतु । तन्नावयविरूपो बाह्योऽर्थोऽस्ति । अथावयविनोऽभावे तदवयवानामपि पाण्यादीनां दिग्भेदादिविरुद्वधर्माध्यासा भेदः । तदवयवानामप्यङ्गुल्यादीनां तत एव भेदात्तावतेंदो यावत्परमाणवः । तेषां च स्थूलप्रतिभासविषयलानुपपत्तिः । स्थूलतनुश्च बहिर्नीलादिरूपः प्रतिभासः स्फुटमुद्भाति । नच स्थूलरूपं प्रत्येकं परमाणुषु संभवति, तथाले परमाणुवायोगात्। नापि समुदितेषु स्थूलरूपसंभवः । समुदितावस्थायामप्यणूनां खरूपेण सूक्ष्मवात्। नच तद्व्यतिरिक्तः समुदायोऽस्ति। तथाले द्रव्यवादप्रसङ्गात् ।