________________
तत्त्वबोधविधायिनी व्याख्या। . १८३ तत्र चोक्तो दोषः। तन्न स्थूलता परमाणुषु कथञ्चिदपि संभवति । नचान्यादृक्निर्भासोऽन्यादृक्षस्यार्थस्य प्रकाशकः । नीलदर्शनस्यापि पीतव्यवस्थापकत्वापत्तेः। तथाच नियतविषयव्यवस्थोच्छेदः । किश्च । परमाणोरपि नानादिक्संबन्धादेकता नोपपन्नैव ।
तथाचाह
"षट्केन युगपद्योगात्परमाणोः षडंशता" । इति । पुनस्तदंशानामपि नानादिक्संबन्धात् सांशताऽऽपत्तिः, तथाचानवस्था । तस्मान्न परमाणूनामपि सत्त्वम्, इत्यवयव्यग्रहणे सर्वाग्रहणप्रसङ्ग इति प्रतिभासाभावापत्तेर्न प्रसङ्गसाधनस्यावकाशः। असदेतत् । अवयव्यभावेऽपि निरन्तरोत्पन्नानां घटाद्याकारेण परमाणूनां सद्भावात् , तद्राहकाणामपि ज्ञानपरमाणूनां तथोत्पन्नानां तबाहकत्वात् न बहिरर्थाभावः । नापि तत्प्रतिभासाभाव इति कथं प्रसङ्गसाधनस्य नावकाशः स्थूलैकरूपावयव्यभावेऽपि?। यदि चावयविनोऽभावे परमाणूनामप्यभावप्रसक्तेः प्रतिभासाभावेन प्रसङ्गसाधनानवकाशः प्रतिपाद्येत, तदा सुतरां परमाणुरूपस्य, ज्ञानरूपस्य चार्थस्याभावे कार्यलादिलक्षणस्य हेतोराश्रयासिद्धतादोषः । बाह्यार्थनयेन चास्माभिराश्रयासिद्ध. तादोषात् कार्यत्वलक्षणाद्धेतोर्नेश्वरसिद्धिरिति प्रतिपादयितुमभिप्रेतम् । यदि पुनविज्ञानशून्यवादानुकूलं भवताऽप्यनुष्ठीयते, तदा साध्यदृष्टान्तर्मिसाध्यसाधनधमादीनामनुमित्यङ्गभूतानां सर्वेषामप्यसिद्धेः कुत उपन्यस्तप्रयोगादीश्वरसिद्धिः ?। तदेवं तन्वादिलक्षणस्य कार्यत्वादिहेत्वाश्रयस्यावयविनोऽसिद्धेराश्रयासिद्धो हेतुः। तथा बुद्धिमत्कारणमिति साध्यनिर्देशे बुद्धिमदिति मतुबर्थस्य साध्यधर्मविशेषणस्यानुपपत्तिः । तज्ज्ञानस्य ततो व्यतिरेके, अकार्यत्वे च तस्येति संबन्धानुप. पत्तेः । तद्गुणत्वात् तत्तस्येति चेत् । न । अकार्यत्वे, व्यतिरेके च तस्यैव तद्गुणो नाकाशादेरिति व्यवस्थापयितुमशक्तेः । समवायो व्यवस्थाकारीति चेत् । न। तस्यापि ताभ्यामनन्तरत्वे स एव दोषः। व्यतिरेके समवायस्यापि सर्वत्राविशेषान्न ततोऽपि तयवस्था। अथेश्वरात्मकार्यत्वादीश्वरात्मगुणस्तज्ज्ञानम् । कुत एतत् । तस्मिन् सति भावादिति चेत् । आकाशादावपि सति तस्य भावात्