________________
१८४ .
सम्मतिताख्यप्रकरणस्यतत्कार्यता किं न स्यात् ? । अथ तदभावेऽभावात्तत्कार्यत्वम् । तन्न। नित्यव्यापित्वाभ्यां तस्य तदयोगात् । तदात्मन्युत्कलितस्य तस्य दर्शनात्तत्कार्यतेति । किमिदं तस्य तत्रोत्कलितत्वम् ? । तत्र समवेतवं तस्येति चेत् । नन्विदमेव पृष्टं किमिदं समवेतत्वं नाम ? । तत्र समवायेन वर्त्तनमिति चेत् । ननु किं व्याप्त्या समवायेन तत्र वर्त्तनम, आहोखिदव्याप्त्या। यदि व्याप्त्या, तदाऽस्मदादिज्ञानवैलक्षण्यं यथा तज्ज्ञानस्यादृष्टस्यापि कल्प्यते, तथाऽकृष्टोत्पत्तिषु वने वनस्पत्यादिषु घटादौ कर्मकर्तृकरणनिवर्त्य कार्यत्वमुपलब्धमपि, चेतनकर्तृरहितमपि भविष्यतीति कार्यत्वलक्षणो हेतुर्बुद्धिमत्कारणपूर्वकले साध्ये स्थावरैर्व्यभिचारीति लाभमिच्छतो मूलक्षतिरायातेति । अथाव्याप्त्या तत् तत्र वर्त्तते, तदा देशान्तरोत्पत्तिमत्सु तन्वादिषु तस्यासन्निधानेऽपि यथा व्यापारः, तथाऽदृष्टस्याप्यग्न्यादिदेशेष्वसन्निहितस्यापि ऊर्ध्वज्वलनादिविषयो व्यापारो भविष्यतीति “अग्नेरूद्मज्वलनं, वायोस्तिर्यपवनम्, अणुमनसोश्वाचं कर्माऽदृष्टकारितम्" इत्यनेन सूत्रेण सर्वगतात्मसाधकहेतुसूचनं यत्कृतं तदसङ्गतं स्यात् । ज्ञानादिविशेषगुणवददृष्टगुणस्य तत्रासनिहितस्याप्यग्न्यायूर्द्धज्वलनादिकार्येषु व्यापारसंभवात् । नच सामान्यगुणविशेषगुणत्वलक्षणोऽपि विशेषो गुणगुणिनोर्भेदे संभवति । किंच । समवायस्य सर्वत्राविशेषे तत्रैव तेन वर्त्तनं नान्यत्रेति कुतोऽयं विभागः?।अथ तत्राधेयत्वं समवे. तत्वम्, तदा आत्मवद् गगनादेरपि सर्वगतले तदात्मन्येव तदाधेयलं नान्यत्रेति दुर्लभोऽयं विभागः । ततस्तज्ज्ञानस्य तदात्मनो व्यतिरेके तस्यैव तज्ज्ञानमिति संबन्धानुपपत्तिः । अथ ततस्तज्ज्ञानस्याभेदेऽपि संबन्धस्य समवायरूपस्य भावान्नायं दोषः । असदेतत् । समवायस्यानुत्पत्तेः । तथाहि । किं सतां समवायः, आहोस्विदसतामिति। तत्र यद्यसतामिति पक्षः। स न युक्तः । शशविषाणव्योमोत्प. लादीनामपि तत्प्रसङ्गात्।अथात्यन्तासत्त्वात्तेषां न तत्प्रसङ्गः। ननु तदात्मतज्ज्ञानयोरत्यन्तासत्त्वाभावः कुतः ? । तत्समवायादिति चेत् । इतरेतराश्रयत्वम्। सिद्धे तत्समवाये तयोरत्यन्तासत्त्वाभावः, तदभावाच्च तत्समवाय इति व्यक्तमितरेतराश्रयत्वम् ।अथ सतां समवायः। ननु तेषां समवायात् प्राक् कुतः सत्त्वम्? । यद्यपरसमवायात् । तदसत् । तस्यैकत्वाभ्युपगमात् । अनेकत्वेऽपि यद्यपरस.