________________
तत्त्वबोधविधायिनी न्याख्या।
१८५ मवायात्प्राक्तेषां सत्त्वम् , समवायादपि प्रागपरसमवायात्तेषां सत्त्वमभ्युपगन्तव्य. मित्यनवस्था । अथ समवायात्प्राक्तेषां खत एव सत्त्वमिति नानवस्था, तर्हि समवायव्यतिरेकेणापि सत्त्वाभ्युपगमे व्यर्थ समवायपरिकल्पनमिति सत्तासंबन्धात्पदार्थानां सत्तेत्युच्यमानं न शोभामावहति । अथ समवायात् प्राक् पदार्थानां न सत्त्वम्, नाप्यसत्त्वम् । सत्तासमवायः सत्त्वम् । असदेतत् । यतो यदि तत्समवायात् प्राक् पदार्था योगिज्ञानमपि न जनयन्ति, तदा कथं तेषां नासत्त्वम् ?; अथ तद् जनयन्ति, तदा कथं तेषां न सत्त्वम् ? । किंच । अन्योऽन्यव्यवछेदरूपाणामेकनिषेधस्यापरसद्भावनान्तरीयकत्वात् कथमसत्त्वनिषेधे न सत्त्वविधानम् ?, तद्विधाने वा कथं नासत्त्वनिषेधः ? इत्ययुक्तमुक्तमुद्द्योतकरण । गोत्वसंबन्धात् प्राग् न गौः, नाप्यगौः, गोत्वयोगाद् गौरित्यपि च । समवायाद्यदि पदार्थानां सत्त्वम्, समवायस्य कुतः सत्त्वमिति वक्तव्यम् ? । यद्यपरसमवायात्; अनवस्था । अथ खत एव समवायस्य सत्त्वम्, पदार्थानामपि तत्वत एवास्तु। पुनरपि व्यर्थ सत्तासमवायकल्पनम् । अथ यदि नाम समवायस्य खतः सत्त्वमिति रूपम्, कथमन्यपदार्थानामपि तदेव रूपमिति सञ्चेतसा वक्तुं युक्तम् । नहि लवणस्य स्वतो लवणले रूपादेरपि तद्यतिरेकेण तद्भवति। असदेतत् । यतोऽध्यक्षतः सिद्दे पदार्थस्वभावे युज्येतैतद्वक्तुम् ; न च समवायादेः स्वरूपतः सत्त्वम्। अन्यपदार्थानां तु तत्सद्भावात् सत्त्वमित्यध्यक्षात् सिद्धम् । अपि च । अयं समवायः किं समवायिनोः परिकल्प्यते, उतासमवायिनोरिति विकल्पद्वयम् । तत्र यद्यसमवायिनोरिति पक्षः। स न युक्तः । घटपटयोरत्यन्तभिन्नयोस्तत्प्रसङ्गात् । न चासमवायिनोभिन्नसमवायेन समवायित्वं तदभिन्नं विधातुं शक्यम् । विरुद्धधर्माध्यासेन ताभ्यां तस्य भेदप्रसङ्गात् । नापि भिन्नम् । तत्करणे तयोः तत्संबन्धिखानुपपत्तेः । भिन्नस्योपकारमन्तरेण तदयोगात्। उपकारेऽपि तद्भिन्नसमवायित्वकरणे पुनरपि तयोरसमवायित्वम् ; अन्यान्योपकारकरणे वनवस्था। खत एव तु समवायिनोः किं समवायेन तहेतुना परिकल्पितेन ?।अथ समवायेन तयोस्तव्यवहारः क्रियते । ननु यदि समवायिनोः स्वरूपं प्रत्यक्षादिप्रमाणगोचरः, तदा तत एवं तब्यवहारस्यापि सिद्धेः, व्यर्थमेव तदर्थ तत्परिकल्पनम् । अथ प्रत्यक्षप्रमाण
२४