________________
१८६
सम्मतिताख्यप्रकरणस्यसिद्धनात् समवायस्यैवं विकल्पनमयुक्तम् । तदसत् । यदि हि तत्सिद्धवं तस्य स्यात्तदा युक्तमेतत् । न च प्रत्यक्षप्रमाणे तत्स्वरूपावभासः । नहि तदात्मा, ज्ञानं, तत्समवायश्चेति त्रितयमिन्द्रियजाध्यक्षगोचरः। नापि स्वसंवेदनाध्यक्ष. विषयः। तस्य भवताऽनभ्युपगमात् । नाप्येकार्थसमवेतानन्तरमनोऽध्यक्षविषयः। तस्य प्रागेव निषिद्धत्वात् । न च बाह्येष्वपि घटरूपादिष्वर्थेष्वयं घटः, एते च तत्समवेता रूपादयः, अयं च तदन्तरालवर्ती भिन्नः समवाय इति त्रितयमध्यक्षपतीतौ विभिन्नस्वरूपं प्रतिभाति । तत्प्रतिभाने वा, द्रव्यगुणसमवायानामध्यक्षसिद्धत्वात् विभिन्नस्वरूपतया न गुणगुणिभावे, समवाये वा कस्यचिहिवादः स्यात् । नाप्येकत्वविभ्रमो घटरूपादीनाम् । ततश्च तन्निराकरणार्थ शास्त्र. प्रणयनमपार्थकं स्यात् । ननु यथा प्रत्यक्षेण प्रतिपन्नेऽप्यनेकान्ते जैनेन, खलक्षणे वा बौद्धेन, खदुरागमाहितवासनाबलाल्लोकस्य तेन तदप्रतिपन्नताविभ्रमः; तन्निराकरणार्थ च शास्त्रप्रणयनम् , तथाऽत्रापि स्यादिति; तर्हि तथा. विधशास्त्ररहितानामबलाबालादीनां न समवायप्रत्यक्षताविभ्रम इति तेषां शुक्लः पट इति प्रतीतिर्न स्यात् , अपि त्वयं पटः, एते शुक्लादयो गुणाः; अयं च तदन्तरालवी अपरः समवाय इति प्रतीतिः स्यात् । अथ समवायस्य सूक्ष्मलात्प्रत्यक्षवेऽप्यनुपलक्षणात्, तत्रस्थवेन रूपादीनामुपचारात् शुक्लः पट इति प्रतिपत्तिः स्यात् । नैतदेवम्। दण्डेऽपि पुरुष इति प्रतिपत्तिः स्यात्। उपचाराच्चेयं प्रतिपत्तिरुपजायमाना स्खलद्रूपा स्यात् , वाहीके गोबुद्धिवत् । न च समवेतमिदं वस्त्वत्रेति प्रतिपत्तौ, विशेषणभूतः समवायः प्रतिभातीति वक्तुं युक्तम् । बहिः प्रतिभासमानरूपादिव्यतिरेकेण, अन्तश्चाभिजल्पमन्तरेणापरस्य वर्णाकृत्यक्षराकारशून्यस्य ग्राह्याकारतां बिभ्राणस्य बहिः समवायस्वरूपस्याप्रतिभासनात् । वर्णाद्याकाररहितं च परैः समवायस्वरूपमभ्युपगम्यते । नच तत्कल्पना बुद्धावपि प्रतिभाति । न चान्यादृशः प्रतिभासोऽन्यादृक्षस्यार्थस्य व्यवस्थापकः । अतिप्रसङ्गात् । तन्न समवायोऽध्यक्षप्रमाणगोचरः । यस्त्वाह-नित्यानुमेयत्वात्समवायस्यानुमानगोचरता, तेनायमदोष इति । तच्चानुमानम् ; इह तन्तुषु पट इति बुद्धिस्तन्तुपटव्यतिरिक्तसंबन्धपूर्विका, इहेति बुद्धिलात्, इह कंसपात्र्यां