________________
१८७
तत्त्ववोधविधायिनी व्याख्वा । जलबुद्धिवदिति एतत् । सोऽप्ययुक्तवादी । समवायस्यान्यस्य वा पदार्थस्य नित्यैकरूपस्य कारणलासंभवात् क्वचिदपि, इति प्रतिपादयिष्यमाणत्वात् । न च तन्तुषु पटः, शृङ्गे गौः, शाखायां वृक्ष इति लौकिकी प्रतीतिरस्ति; पटे तन्तवो, गवि शृङ्गं, वृक्षे शाखेत्याकारण प्रतीत्युत्पत्तेः संवेदनात, तस्याश्च समवायनिबन्धनले तन्वादीनां पटाद्यारब्धवप्रसङ्गः । किंच । समवायस्य समवायिभिरनभिसंबन्धे तस्य तत्र “संबद्धबुद्धिनननं; तेषां संबन्ध एव च" इति च न युक्तम् । न हि दण्डपुरुषयोः संयोगः सह्यविन्ध्याभ्यामनभिसंबन्ध्यमानस्तत्र संबन्धबुद्धिहेतुः। तत्संषुद्धौ वा, तैस्तदभिसंबन्धे वा खतः द्रव्यगुणकमणां खाधारैः स्वतः संबन्धः किं न स्यात् ?, यतः समवायपरिकल्पनाऽऽनर्थक्यमश्नुवीत । इह समवायिषु समवाय इति च बुद्धिरपरनिमित्तिका प्रकृतस्य हेतोरनैकान्तिकलं कथं न साधयेत् ?। खतस्तत्संबन्धाभ्युपगमे समवायान्तरेण तस्य तदभिसंबन्धेऽनवस्थालता गगनतलावलम्बिनी प्रसज्येत । विशेषणविशेष्यभावलक्षणसंबन्धबलात्तस्य तदभिसंबन्धे तस्यापि तैः संबन्धोऽपरविशेषणविशेष्यभावलक्षणसंबन्धबलाद्यदि, सैवानवस्था ।समवायबलात्तस्य तत्संबन्धे व्यक्तमितरेतराश्रयत्वम् । स्वतस्तैस्तस्याभिसंबन्धे बुद्ध्यादीनामपि स्वत एव स्वाधारैः संबन्धो भविष्यतीति व्यर्थ संबन्धपरिकल्पनम् । तन्न समवायः कस्यचित्प्रमाणस्य गोचरः । पुनरपि चैनं यथास्थानं निषेत्स्याम इति आस्तां तावत् । तदेवं बुद्धेस्तदात्मनो व्यतिरेके संबन्धासिद्धेर्मतुबर्थानुपपत्तिः । अथाव्यतिरिक्ता तदात्मनस्तद्बुद्धिस्तथाऽपि तदनुपपत्तिः । न हि तदेव तेनैव तद्वद्भवति । किंच। तदात्मनस्तबुद्धेरव्यतिरेके यदि तदात्मनि तद्बुद्धेरनुप्रवेशः, तदा बुद्धेरभावाद् बुद्धिविकलो गगनादिवज्जडस्वरूपःतदात्मा कथं जगत् स्रष्टा स्यात् ? । बुद्ध्यादिविशेषगुणगणवैकल्ये च तदात्मनोऽस्मदाद्यात्मनोऽप्यात्मत्वेन तद्वैकल्यान्मुक्तात्मन इव संसारित्वं न स्यात् । नवानां विशेषगुणानामात्यन्तिकक्षयोपेतस्यात्मनो मुक्तत्वाभ्युपगमात् । तस्य चास्मदाद्यात्मस्वपि समानत्वात् भवदभ्युपगमेन । अथात्मत्वाविशेषेऽपि तदात्माऽस्मदाद्यात्मभ्यो विशिष्टोऽभ्युपगम्यते, तर्हि कार्यत्वाविशेषेऽपि घटादिकार्येभ्यः स्थावरादिकार्यमकर्तृत्वेन विशिष्टं किं नाभ्युपगम्यते ।