________________
१८८
सम्मतिताख्यप्रकरणस्यतथाच न कार्यत्वादिलक्षणो हेतुरनुपलभ्यमानकर्तृकैः स्थावरादिभिरव्यभिचारी स्यात् । अथ तबुद्धौ तदात्मनोऽननुप्रवेशः, तदा बुद्धिमात्रमाधारशून्यमभ्युपगन्तव्यं भवति। तथाचास्मदादिबुद्धेरपि तद्वदाधारविकलत्वेन मतुबर्थासंभवात् ; घटादावपि बुद्धिमत्कारणत्वस्यासिद्धत्वात् साध्यविकलो दृष्टान्तः । अथाऽस्मदादिबुद्धिभ्यो बुद्धित्वे समानेऽपि तबुद्धेरेवानाश्रितत्वलक्षणो विशेषोऽभ्युपगम्यते, तर्हि घटादिकार्येभ्यः पृथिव्यादिकार्यस्य कार्यत्वे समानेऽप्यकर्तृपूर्वकत्वलक्षणो विशेषोऽभ्युपगन्तव्य इति पुनरपि कार्यत्वलक्षणो हेतुस्तैरेव व्यभिचारी। किंच । असौ तबुद्धिः क्षणिका,अक्षणिका वेति वक्तव्यम् । यदि क्षणिकेति पक्षः, तदाऽऽत्मानं समवायिकारणम् , आत्ममनःसंयोगं वाऽसमवायिकारणम्, तच्छरीरादिकं च निमित्तकारणमन्तरेण कथं द्वितीयक्षणे तस्या उत्पत्तिः?, तदनुत्पत्तौ चाचेतनस्याण्वादेश्वेतनानधिष्ठितस्य कथं भूधरादिकार्यकरणे प्रवृत्तिः?, वास्यादेरिवाचेतनस्य चेतनानधिष्ठितस्य प्रवृत्त्यनभ्युपगमात्। ततश्चेदानीं भूरुहादीनामनुत्पत्तिप्रसङ्गात् कार्यशून्यं जगत् स्यात्। अथ समवाय्यादिकारणमन्तरेणापि तबुद्धेरस्मदादिबुद्धिवैलक्षण्यादुत्पत्तिरभ्युपगम्यते । नन्वेवं घटादिकार्यवैलक्षण्यं भूधरादिकार्यस्य किं नाभ्युपगम्यते ? इति तदेव चोद्यम् । किंच । यदीशबुद्धिः समवाय्या. दिकारणनिरपेक्षैवोत्पत्तिमासादयति, तर्हि मुक्तानामप्यानन्दादिकं शरीरादिनिमित्तकारणादिव्यतिरेकेणाप्युत्पत्स्यते इति न बुद्धिसुखादिविकलं जडात्मस्वरूपं मुक्तिः स्यात् । अथाक्षणिका तबुद्धिः, नन्वेवमस्मदादिबुद्धिरप्यक्षणिका किं नाभ्यु. पगम्यते ? । अथ प्रत्यक्षादिप्रमाणविरोधान्नास्मदादिबुद्धिरक्षणिका, तर्हि तद्विरोधादेवाकृष्टोत्पत्तिषु स्थावरेषु कार्यत्वं बुद्धिमत्कारणपूर्वकं नाभ्युपगन्तव्यम् । अथास्मदादिबुद्धेः क्षणिकत्वसाधकमनुमानमक्षणिकत्वाभ्युपगमे बाधकं प्रवर्त्तते, न पुनरकृष्टोत्पत्तिषु स्थावरेषु; किं पुनस्तदनुमानम् ; अथ क्षणिका बुद्धिरस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् , शब्दवदित्येतत् । ननु यथाऽस्यानुमानस्यास्मदादिबुद्ध्यक्षणिकत्वाभ्युपगमबाधकस्य संभवः, तथाऽकृष्टोत्पत्तिषु स्थावरेषु कर्तृपूर्वकत्वाभ्युपगमबाधकस्य तस्य संभवः प्रतिपादयिष्यत इति नात्र वस्तुनि भवतौत्सुक्यमास्थेयम् । यथा च बुद्धिक्षणिकत्वानुमानस्यानेकदोषदुष्टत्वं, तथा