________________
तत्त्वबोधविधायिमी व्याख्या। १८९ शब्दस्य पौगलिकत्वविचारणायां प्रतिपादयिष्यत इत्येतदप्यास्तां तावत् । यथा वा बुद्धित्वाविशेषेऽपीशास्मदादिबुद्ध्योरयमक्षणिकत्वक्षणिकत्वलक्षणो विशेषः, तथा भूरुहघटादिकार्ययोरप्यकर्तृकर्तृपूर्वकत्वलक्षणो विशेषः किं नाभ्युपगम्यते ? इति पुनरपि तदेव दूषणं कार्यत्वादेर्हेतोरनैकान्तिकत्वलक्षणं प्रकृतसाध्ये । तदेवं बुद्धिमत्कारणपूर्वकत्वलक्षणे साध्ये मतुबर्थासंभवात् ; तन्वादीनामनेकधा प्रमाणबाधासंभवाच्च; शास्त्रव्याख्यानादिलिङ्गानुमीयमानपाण्डित्यगुणस्य देवदत्तस्येव मूर्खत्वलक्षणे साध्येऽनुमानबाधितकर्मनिर्देशानन्तरप्रयुक्तस्य कार्यत्वादेहेतोः कालात्ययापदिष्टत्वेन तत्पुत्रत्वादेरिवागमकत्वम् , अनुमानबाधितत्वं वा पक्षस्येति स्थितम् । तथा कार्यत्वादिति हेतुरप्यसिद्धः । तथाहि । किमिदं तन्वादीनां कार्यत्वं, प्रागसतः खकारणसमवायः, सत्तासमवायो वेति चेत् । कुतः प्रागिति । कारणसमवायादिति चेत् । ननु तत्समवायसमये प्रागिव खरूपसत्त्ववैधुर्ये प्रागिति विशेषणमनर्थकम् । सति संभवे व्यभिचारे च विशेषणमुपादीयमानमर्थवद्भवति; अत्र तु व्यभिचार एव न संभवः । तथाहि । यदि कारणसमवायसमये खरूपेण सद्भवति तन्वादि, तदा तत्काल इव तस्य प्रागपि सत्त्वे कार्यत्वं न स्यादिति विशेषणमुपादीयते प्रागसत इति । यदा पुनः प्रागिव कारणसमवायवेलायामपि वरूपसत्त्वविकलता, तदा प्रागिति विशेषणं न कश्चिदर्थ पुष्णाति, असत इत्येवास्तु । न चासतः कारणसमवायोऽपि युक्तः । शशविषाणादेरपि तत्प्रसङ्गात् । तस्य कारणविरहान्न तत्प्रसङ्ग इति चेत् । कुत एतत् । असत्त्वात् । तनुकरणादेरपि तद्वदसत्त्वे किंकृतोऽयं विभागः ?। अस्य कारणमस्ति न शशशृङ्गादेरिति तन्वादेः कारणमुपलभ्यते नेतरस्येत्यपि नोत्तरम् । यतः कार्यकारणयोरुपलम्भे सत्येतत्स्यादिदमस्य कारणं, कार्य चेदमस्येति । न च परस्य तदुपलम्भः प्रत्यक्षतः । उपलम्भकारणमुपलम्भविषय इति नैयायिकानां मतम्। “अर्थवत्पमाणम्" इत्यत्र भाष्ये प्रमातृप्रमेयाभ्यामर्थान्तरमव्यपदेश्याव्यभिचारिव्यवसायात्मकज्ञाने कर्तव्येऽर्थः सहकारी विद्यते यस्य तदर्थवत्प्रमाणमिति व्याख्यानात् । न चाजनकं सहकारि; सह करोतीति सहकारीति व्युत्पत्तेः। न चासच्छशविषाणसमं ज्ञानस्यान्यस्य वा कारणम् , विरोधात् ।