________________
१९०
सम्मतिताख्यप्रकरणस्यअपि च । इन्द्रियार्थसन्निकर्षात् प्रत्यक्षं ज्ञानमुत्पत्तिमत्, कार्यकारणादिनाचेन्द्रि. यसन्निकर्षः संयोगः, सोऽपि कथं तेनासता जन्यते ? इति चिन्यम्। संयोगाभावे च रूपादिनेन्द्रियस्य संयुक्तसमवायः, रूपलादिना तु संयुक्तसमवेतसमवाय इति सर्व दुर्घटम् । एतेन द्रव्यत्वादिसामान्यसंबन्धोऽपि तस्य निरूपितः । तन्न तन्वादि. विषयमध्यक्षम् । अत एव नानुमानमपि। तदेवं खरविषाणादिवत्कार्यकारणादेरनुपलम्भान्न युक्तमेतच्छरीरादेः कारणमस्ति, न शशशृङ्गादेरिति । यदि पुनस्तनुकरणादिः सन् वन्ध्यासुतादिपरिहारेणेति मतिः । तत्र कुतः स एव सन् ? । कारणसमवायात्। सोऽपि कुतः। सत्त्वात्। अन्योऽन्यसंश्रयः। तत्समवायात्सत्त्वमतश्च तत्समवाय इति। प्रागसतः सत्तासमवायात् स एव सन्निति चेत्, कुतःप्राक्; सत्तासमवायात् । ननु तत्समवायकाले प्रागिव स्वरूपसत्त्वविरहे प्रागितिविशेषणमनर्थकमित्यादि सर्व वक्तव्यम् । असतश्च सत्तासमवाये खरशृङ्गादेरपि संभवेत् , अविशेषात् । प्रागितिच विशेषणं शशशृङ्गादिव्यवच्छेदार्थ परेणोक्तम्। सत्तासंबन्धसमये च तन्वादेः स्वरूपसत्त्वाभावे कस्ततो विशेषः ?। अयमस्ति विशेषः । कूर्मरोमादिकमत्यन्तासत्, इतरत्पुनः खयं न सन्नाप्यसत्, अत एव सत्तासंबन्धात्तदेव सदित्युच्यत इति। तदेतज्जडात्मनो भवतः कोऽन्यो भाषते । तथाहि । न सदितिवचनात्तस्य सत्तासंबन्धात्पागभाव उक्तः; सत्प्रतिषेधलक्षणत्वादस्य । नाप्यसदित्यभिधानाद्भावः, असत्त्वनिषेधरूपत्वाद् भावस्य रूपान्तराभावात् । तथैव वैयाकरणानां न्यायः-"द्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः" इति। कथमन्यथा नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वादित्यत्र नैरात्म्यनिषेधः सात्मकः सिद्येत् ? । अत्र केचित् ब्रुवते । नैवं प्रयोगः क्रियतेऽपि तु सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति । तैरप्येवं प्रयोगं कुर्वद्भिः सात्मकलाभावो नियमेन प्राणादिमत्त्वाभावेन व्याप्तोऽभ्युपगन्तव्यः । अन्यथा व्यभि. चाराशङ्का न निवर्तेत । तदभ्युपगमे चेदमवश्यं वक्तव्यम् । जीवच्छरीरे प्राणादिमत्त्वं प्रतीयमानं स्वाभावं निवर्त्तयति । स च निवर्तमानः खव्याप्यं सात्मकवाभावमादाय निवर्त्तते; इतरथा तेनासौ व्याप्तो न स्यात् । यस्मिन्निवर्तमाने यन्न निवर्त्तते न तेन तद्याप्तम् , यथा निवर्तमानेऽपि प्रदीपे अनिवर्त्त