________________
तत्वबोधविधायिनी व्याख्या ।
99
मानः पटादिर्न तेन व्याप्तः, न निवर्त्तते च प्राणादिमत्त्वाभावे निवर्त्तमानेऽपि सात्मकत्वाभाव इति । निवर्त्तते इति चेत्, तन्निवृत्तावपि यदि सात्मकत्वं न सिद्ध्यति, न तर्हि तदभावो निवर्त्तते । सात्मकत्वाभावाभावेऽपि तदभावस्य तदवस्थत्वात् सिद्ध्यतीति चेत्; आयातमिदं " द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः इति । तदा चेदमपि युक्तम्- नेदं निरात्मकं जीवच्छरीरं, प्राणादिमत्त्वादिति । अन्ये तु मन्यन्ते - अन्यत्र दृष्टो धर्मः क्वचिद्धर्मिणि विधीयते, निषिच्यते चेति वचनात्, केवलं घटादौ नैरात्म्यमप्राणादिमत्त्वेन व्याप्तं दृष्टम् ; तदेव निषिद्यते जीवच्छरीरे प्राणादिमत्त्वाभावेन, न पुनः सात्मकत्वं विधीयते । तस्यान्यत्रादर्शनादिति । तेषां घटादौ नैरात्म्यं प्रतिपन्नं प्रतिषिध्यते इति भवतु सूक्तम् ; तथापि तन्निषेधसामर्थ्याद्यदि जीवच्छरीरे सात्मकत्वं न स्यात्, न तर्हि तत्र तन्निषेधः । यदा हि नैरात्म्यनिषेधो न सात्मकः, किन्तु यथाऽऽत्मनोऽभावो नैरात्म्यं, तथाऽस्याभावोऽपि तुच्छरूपः, आत्मनोऽन्यत्वाद्, भङ्गयन्तरेण नैरात्म्यमेव पुनस्तन्निषेद्धव्यम् । पुनरपि तन्निषेधस्तुच्छरूपो नैरात्म्यमित्यपरस्तन्निषेधो मृग्यः । तथा च सत्यनवस्थानान्न नैरात्म्यनिषेधः । किंच यदि नाम घटादौ नैरात्म्यमुपलब्धं किमित्यन्यत्र निषिध्यते ? । इतरथा देवदत्ते पाण्डित्यमुपलब्धं यज्ञदत्तादौ निषिध्येत । तत्र प्राणादिमत्त्वदर्शनादिति चेत् । युक्तमेतत् । यदि प्राणादिमत्त्वं नैरात्म्यविरुद्धं स्यादग्निरिव शीतविरुद्धः । न चैवम् । अन्यथा सर्वमशेषविरुद्धं भवेत्, प्राणादिमत्त्वेन स्वाभावो नैरात्म्यव्यापको विरुद्धस्ततः प्राणादिमत्त्वभावात् तदभावो निवर्त्तते वह्निभावादिव शीतम् । स च निवर्त्तमानः स्वव्याप्यं नैरात्म्यमादाय निवर्त्तते; यथा धूमाभावः पावकाभावमिति दत्तमत्रोत्तरम् । यदि नैरात्म्याभावः सात्मको न भवेत् तदवस्थं नैरात्म्यमिति, भवतु तर्हि नैरात्म्यनिषेधः सात्मकः । तथा सति सत्तासंबन्धात् प्राक् तन्वादिर्नासन्नितिवचनात् तदा तस्य सत्त्वमुक्तम् ; न सदित्यभिधानादसत्त्वमिति विरोधः । ततोऽसदेव तद्भ्युपगन्तव्यमिति न वन्ध्यासुतादेस्तनुकरणादेर्विशेषः । भवत्वेवं तथापि तन्वादेरेव सत्तासंबन्धात्सत्त्वम्, न खरशृङ्गादेः, तथादर्शनादिति चेत । उक्तमन्त्र तथादर्शनोपायाभावादिति । अपि
१९१