________________
१९२
सम्मतितर्द्धाख्यप्रकरणस्य
च । सत्ताऽपि यद्यसती, कथं ततो वन्ध्यासुतादेरिवापरस्य सत्त्वम्, सती चेद, यद्यन्यसत्तातः, अनवस्था । स्वतश्चेत्, पदार्थानामपि स्वत एव सत्त्वं स्यादिति व्यर्थे तत्परिकल्पनम् । किञ्च । यदि स्वत एव सत्ता सती उपेयते, तदा प्रमाणं वक्तव्यम्। अथ स्वतः सत्ता सती, तत्संबन्धात् तन्वादीनां सत्त्वान्यथाऽनुपपत्तेः, तर्ह्यन्योन्यसंश्रयः; तत्संबन्धात् तन्वादिसत्त्वे सिद्धे सत्तासत्त्वसिद्धिः, ततस्तत्संबन्धात् तन्वादिसत्त्वसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् । अथ सत्ता स्वतः सती, सदभिधानप्रत्ययविषयत्वाद्, अवान्तरसामान्यादिवत् । न द्रव्यादिना व्यभिचारः, द्रव्यादिरपि सद् द्रव्यं, सन् गुणः, सत्कर्मेत्येवं सदभिधानप्रत्ययविषयो भवति । न चासौ परेण स्वतः सन्नभ्युपगतः । सत्ताप्रकल्पनवैफल्यप्रसङ्गात् । न च द्रव्यादौ तद्विषयत्वं परापेक्षं न सत्तायामिति वक्तुं युक्तम् । तस्यामपि तदपेक्षत्वसंभवात् । अथ तत्र तस्य तदपेक्षत्वे किं तदपरमिति वक्तव्यम् ? । नन्वेतद् द्रव्यादावपि समानम्, तत्र सत्तेति चेत्, अत्रापि द्रव्यादिकमिति तुल्यम् । यथैव हि सत्तासंबन्धात् द्रव्यादिकं सत्, न स्वतः; तथा द्रव्यादिखरूपसत्त्वसंबन्धात्सत्ता सती, न स्वतः । द्रव्यादेः खरूपसत्त्वं नास्ति, तेनायमदोषः । तदस्तित्वे को दोष इति वाच्यम् । ननु तस्य स्वतः सत्त्वेऽवान्तरसामान्याभावप्रसङ्गो दोषः । ननु खतोऽसत्त्वे खरविषाणादेवि सुतरां तदभावदोषः । अपि च । यो हि तत्र सत्तासंबन्धं नेच्छति, स कथमवान्तरसामान्यसंबन्धमिच्छेत् ? । न चात्र प्रमाणं स्वतोऽसन्तोद्रव्यादयो नावान्तरसामान्यमिति । अथैतद्द्रव्यादयो न स्वतः सन्तः, अवान्तरसामान्यवत्त्वाद्; यत् पुनः स्वतः सत्, न तदवान्तरसामान्यवत्, यथा सामान्यवि - शेषसमवाया इति व्यतिरेकी हेतुः । नैतत् । यदि हि द्रव्यादयो धर्मिणः कुतश्चित्प्रतीतिगोचरचारिणो ऽसन्तो भवन्ति, स कथमवान्तरसामान्य संबन्धमिच्छेत् । न चात्र प्रमाणं स्वतोऽसन्तो द्रव्यादयो नावान्तरसामान्यमिति । अथैतद्द्द्रव्यादयो न स्वतः सन्तोऽवान्तरसामान्यवद्, यथा सामान्यप्रतीतिः सत्त्वं साधयन्ती स्वत इति प्रतिज्ञाम् । तदसत्त्वविषयाबाधने चेदमत्रोत्तरम् । न स्वतः सन्तस्ते प्रतीतिविषयाः किन्तु सत्तासंबन्धादिति यतो न स्वयमसन्तस्तत्संबन्धात्तद्विषया भवन्तीत्युक्तम् । किंच | द्रव्यादेरेकान्तेन यस्य भिन्नान्यवान्तरसामान्यानि कथं