________________
तत्त्वबोधविधायिनी न्याख्या।
१९३ तस्य तानि स्युः ? ; यतोऽवान्तरसामान्यवत्त्वादिति हेतुः सिद्धः स्यात् । अथ तथापि तस्यापि न परस्परमपि स्युरिति सामान्यसमवायात् परिशेषवदितिवैधर्म्य. निदर्शनमयुक्तम् । यदि मतं, द्रव्यादौ तानि समवेतानि, ततस्तस्य तानि, न सामान्यादेविपर्ययादिति । तन्न सम्यक् । तत्र समवेतानीति समवायेन संबद्धानीति यद्यर्थः । स न युक्तः । समवायस्य निषिद्धत्वान्निषेत्स्यमानत्वाच्च । भवतु वा समवायः, तथापि यत्र द्रव्ये, गुणे, कर्मणि च द्रव्यत्वं, गुणत्वं, कर्मत्वं चाऽवान्तरसामान्यं, तत्रैव पृथिवीत्वादीनि, रूपत्वादीनि, गमनत्वादीनि च तथाविधानि सामान्यानि, समवायोऽपि तत्रैव सामान्यवत् , तस्य सर्वगतत्वाच्च द्रव्यादिवदन्योन्यसत्तानीति न द्रव्यादेः स्वतः सत्त्वबाधनमित्याशङ्का न निवर्तते; किं द्रव्यादिसंबन्धात्सत्ता सती, किं वा तया द्रव्यादिकं सदिति । तन्न सत्तातः तन्वादेः सत्त्वम् । तस्या एवासिद्धत्त्वात् । सत्ताप्रत्यक्षादिप्रमाणसिद्धत्वात् सत्तायाः प्रत्यक्षबाधितविषयत्वे नैवमुपन्यस्यमानस्य प्रसङ्गसाधनस्यानवकाशः । न च द्रव्यप्रतिभासवेलायां प्रत्यक्षबुद्धौ परिस्फुटरूपेण व्यक्तिविवेकेन सत्ता न प्रतिभातीति शक्यं वक्तुम् । अनुगताकारस्य च प्रत्यक्षानुभवस्य संवेदनात् । न चानुगतव्यावृत्तवस्तुव्यतिरेकेण याकारा बुद्धिर्घटते ; न हि विषयव्यतिरेकेण प्रतीतिरुत्पद्यते । नीलादिस्वलक्षणप्रतीतेरपि तथाभावप्रसङ्गात् । अथ तैमिरिकस्य बाह्यार्थसन्निधिव्यतिरेकेणापि केशोण्डुकादिप्रतीतिरुदेति, तथैवानुगतरूपमन्तरेणापि भिन्नवस्तुष्वनुगताकारा बुद्धिरुदेष्यतीति न ततः सत्ताव्यवस्था । तद्युक्तम् । तैमिरिकप्रतीतौ हि प्रतिभासमानस्य केशोण्डुकादेधिककारणदोषपरिज्ञानादतत्त्वम् ; सत्तादर्शने तु न बाधकप्रत्ययोदयो, नापि कारणदोषपरिज्ञानमिति न तद्ब्राहिणो विज्ञानस्य मिथ्यात्वम् । तथाहि । विभिन्नेष्वपि घटपटादिष्वर्थेषु सत्सदित्यभेदमुल्लिखन्ती प्रतीतिरुदयमासादयति; न चासौ कालान्तरादौ विपर्ययमुपगच्छन्ती लक्ष्यते । सर्वदा सर्वेषां घटपटादिषु सत्सदिति व्याहृतेः । व्यवहारमुपरचयन्ती च प्रतीतिः परैरपि प्रमाणमभ्युपगम्यते । यथोक्तं तैः, “प्रामाण्यं व्यवहारेण" इति । तदेवमवस्थितम् । अनुगताकारा हि बुद्धिावृत्तरूपप्रतीत्यनधिगतं साधारणरूपमुल्लिन
२५