Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 170
________________ १७० सम्मतिताख्यप्रकरणस्य धर्माणां प्रमाणान्तरेण बाधोपपत्तौ विशिष्टबुद्धिमत्कारणसिद्धिय॑तिरेकिबलादिति केचित् । अन्ये मन्यन्ते यत्रान्वयव्यतिरेकिणो हेतोर्न विशेषसिद्धिः, तत्र तत्पूर्वकात् केवलव्यतिरेकिणो विशेषसिद्धिर्भवतु; यथा घ्राणादिषु । अत्र तु पूर्वस्मादेतोर्विशेषसिद्धौ न हेत्वन्तरपरिकल्पना। यथा धूमस्य वह्निनाऽन्वयव्यतिरेकसिद्धावत्र देशे वह्निरिति पक्षधर्मत्वबलात्प्रतिपत्तिः, नान्वयाद् व्यतिरेकाहा।तयोयेतद्देशावच्छिन्नेन वह्निनाऽसंभवाद्यद्यपि व्याप्तिकाले सकलाक्षेपेण तद्देशस्याप्याक्षेपः, अन्यथाऽत्र व्याप्तेरसंभवात ; तथापि व्याप्तिग्रहणवेलायां सामान्यरूपतया तदाक्षेपः, न विशेषरूपेणेति विशेषावगमो नान्वयव्यतिरेकनिमित्तः, अपि तु पक्षधमत्वकृतः।अत एव प्रत्युत्पन्नकारणजन्यां स्मृतिमनुमानमाहुः । प्रत्युत्पन्नं च कारणं पक्षधर्मत्वमेव । तथा कार्यत्वादेर्बुद्धिमत्कारणमात्रेण व्याप्तिसिद्धावपि कारणविशेषप्रतिपत्तिः पक्षधर्मत्वसामर्थ्यात् । य इत्थंभूतस्य पृथिव्यादेः कर्ता, नियमेनासावकृत्रिमज्ञानसंबन्धी शरीररहितः सर्वज्ञ एक इति । एवं यदा पक्षधर्मत्वबलाद्विशेषसिद्धिः, तदा न विशेषविरुद्धादीनामवकाशः।अन्वयसामर्थ्यादपि विशेषसिद्धिमन्ये मन्यन्ते । यथा धूममात्रस्य वह्निमात्रेण व्याप्तिः, एवं धूमविशेषस्य वह्निविशेषेण इति धूमविशेषप्रतिपत्तौ न वह्निमात्रेणान्वयानुस्मृतिः; किन्तु वह्निविशेषेगैवंविशिष्टकार्यत्वदर्शनान्न कारणमात्रानुस्मृतिः, किन्तु तथाविधकार्यविशेषजनककारणविशेषानुस्मृतिः। तदनुस्मृतावत्रान्वयसामर्थ्यादेव कारणविशेषप्रतिपत्तिरिति न विशेषविरुद्धावकाशः। एतेषां पक्षाणां युक्तायुक्तत्वं सूरयो विचारयिष्यन्तीति नास्माकमत्र निर्बन्धः; सर्वथा विशेषविरुद्धस्यादूषणत्वमस्माभिः प्रतिपाद्यते, तद्विरुद्धलक्षणपर्यालोचनया प्रसक्तानां च विशेषाणां प्रमाणान्तरबाधया, अन्वयव्यतिरोकमूलकेवलव्यतिरेकिबलाहा, पक्षधर्मत्वसामर्थ्येन वा, कार्यविशेषस्य कारणविशेषान्वितत्वेन वा; नात्र प्रयत्यते।सर्वथा प्रस्तुतहेतौ न व्याप्त्यसिद्धिः। प्रसक्तानां विशेषाणां प्रमाणान्तरबाधया विशेषविरुद्धताऽनवकाश इत्युक्तम् ; तत्र कतमस्य प्रसक्तस्य विशेषस्य केन प्रमाणेन निराकृतिः ?। शरीरसंबन्धस्य तावयाप्त्यभावेन; शरीरान्तररहितस्याप्यात्मनः स्वशरीरधारणप्रेरणक्रियासु यथा। अथात्मनः प्रयत्नवत्त्वाद् धारणादिक्रियासु शरीराद्याधारासु कर्तृवं युक्तम्, नेश्वरस्य; तद्रहितत्वात् ।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200