Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 169
________________ १६९ तत्त्वबोधविधायिनी व्याख्या । तदाश्रयत्वेन हेतोर्यथा प्रमाणेनोपलम्भस्तथा पूर्व प्रदर्शितम् । अतोऽस्मादीश्वरावगमे न तत्सिद्धौ प्रमाणाभावः। नापि हेतोर्विशेषविरुद्धता । तद्विरुद्धत्वे हेतोर्विशेषणेऽभ्युपगम्यमाने न कश्चिद्धेतुरविरुद्धो भवेत् । प्रसिद्धानुमानेऽपि विशेषविरुद्धादीनां सुलभत्वात् । यथाऽयं धूमो दहनं साधयति तथैतद्देशावच्छिन्नवह्नयभावमपि साधयति । नहि पूर्वधूमस्यैतद्देशावच्छिन्नेन वह्निना व्याप्तिः । एवं कालाद्यवच्छेदेन हेतोविरुद्धता वक्तव्या। अथ देशकालादीन् विहाय वह्निमात्रेण हेतोाप्तेन विरुद्धता, तर्हि तहत्कार्यमात्रस्य बुद्धिमत्कारणपूर्वकत्वेन व्याप्तेः यद्यपि दृष्टान्तेऽनीश्वरोऽसर्वज्ञः कृत्रिमज्ञानसम्बन्धी सशरीरः क्षित्याद्युपविष्टः कर्ता, तथापि पूर्वोक्तविशेषणानां धर्मिविशेषरूपाणां व्यभिचारात्तद्विपर्ययसाधकत्वेऽपि न विरुद्धता। विरुद्धो हि हेतुः साध्यविपर्ययकारित्वाद्भवति। नचैतेषां साध्यता । बुद्धिमत्कारणपूर्वकत्वमात्रस्यास्माद्धेतोः साध्यत्वेनेष्टत्वात् । यथा च विशेषविरुद्धादीनामदूषणत्वं तथा “सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः” इत्यत्र सूत्रे निर्णीतम्। इतश्चैतददूषणम्। पूर्वस्माद्धेतोः स्वसाध्यसिद्धावुत्तरेण पूर्वसिद्धस्यैव साध्यस्य किं विशेषः साध्यते, उत पूर्वहेतोः स्वसाध्यसिद्धिप्रतिबन्धः क्रियते । न तावत्पूर्वो विकल्पः। यदि नाम तत्रापरेण हेतुना विशेषाधानं कृतं, किं तावता पूर्वस्य हेतोः साध्यसिद्धिविघातः । यथा कृतकवेन शब्दस्यानित्यवसिद्धौ, हेवन्तरेण गुणवसिद्धावपि न पूर्वस्य क्षतिः, तद्वदत्रापि।अथोत्तरो विकल्पः। तथापि स्वसाध्यसिद्धिप्रतिबन्धो व्याप्त्यभावप्रदर्शनेन क्रियते; व्याप्त्यभावश्च हेतुरूपाणामन्यतमाभावेन। न च धर्मिविशेषविपर्ययोद्भावनेन कस्यचिदपि रूपस्याभावः कथ्यते; नच हेतुरूपाभावासिद्धावगमकत्वम् । तन्न विशेषविरुद्धता । विशेषास्तु धर्मिणः स्वरूपसिद्धावुत्तरकालं प्रमाणान्तरप्रतिपाद्याः, न तु पूर्वहेतुबलादभ्युपगम्यन्ते । तच्च प्रमाणान्तरमागमः, पूर्वहेतोर्हेवन्तरं च । तच्चान्वयव्यतिरेकिपूर्वककेवलव्यतिरेकिसंज्ञम् । यथा गन्धाधुपलब्ध्या तत्साधनकरणमात्रप्रसिद्धौ प्रसक्तप्रतिषेधे करणविशेषसिद्धिः केवलव्यतिरेकिनिमित्ता, तथेहापि कार्यत्वात् बुद्धिमत्कारणमात्रप्रसिद्धौ प्रसक्तप्रतिषेधात् कारणविशेषसिद्धिः केवलव्यतिरेकिनिमित्ता । तथाहि । कार्यत्वाद् बुद्धिमत्कारणमात्रसिद्धौ प्रसक्तानां कृत्रिमज्ञानशरीरसंबद्धलादीनां

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200