Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 157
________________ १५७ तत्वबोधविधायिनी व्याख्या। दनं वोच्येत, स्वरूपावेदनं वा। वस्त्ववेदने, सकलप्रतिषेधो न युक्तः । स्वरूपावेदनं तु स्वसंवेदनाभ्युपगमे दूरोत्सारितम् । तस्मादिदानीमेव मनोव्यापारात्तदवस्थाभावी सर्वानवगमः संवेद्यते । अस्तु वा तस्यामवस्थायां विज्ञान, तथापि जनकत्वातिरिक्तव्यापारविशेषाभावः समनन्तरप्रत्ययत्वे जनकत्वातिरिक्तेऽभ्युपगम्यमाने तयोस्तात्त्विकभेदप्रसङ्गः । तथाच यदेवैकस्यां ज्ञानसन्ततौ समनन्तरप्रत्ययत्वं, तदेव परसन्तताववलम्बनत्वेन जनकत्वमित्येतन्न स्यात् । अथ जनकत्वसमनन्तरत्वादयो धर्माः काल्पनिकाः।अकल्पितं तु यत् स्वरूपं तत्तात्त्विकं,तच बोधरूपम् । किमिदानीं सांवृतात् रूपाद्भावानामुत्पत्तिः, नेत्युच्यते, कथं वा काल्पनिकत्वम् । अथ जनकत्वातिरिक्तस्य समनन्तरप्रत्ययत्वस्यैवमुच्यते, कथं तन्निबन्धना व्यवस्था । तथाहि । एकस्यां सन्ततौ परसन्ततिगतेन विज्ञानेन तुल्येऽपि जनकत्वे, समनन्तरप्रत्ययत्वेन जननविशेषमङ्गीकृत्यैकसन्तानव्यवस्था क्रियते; यदा तु व्यवस्थानिबन्धनस्यापि सांवृतत्वं, ततस्तत्कृताया व्यवस्थायाः परमार्थसत्त्वं दुर्भणमिति।अयमपि सौगतानां दोषो न जैनानाम्।यतो ज्ञानपूर्वकत्वं ज्ञानस्य, स्वसंवेदनं च ज्ञानस्य स्वरूपमित्येतत्प्राक् प्रतिसाधितम् । यच्चोक्तम् । अतज्जातीयादपि भावानामुत्पत्तिदर्शनाद्, यथा धूमादेः। इत्यपि न संगतम्। यतो नास्माभिरतज्जातीयोत्पत्तिर्नाभ्युपगम्यते, विलक्षणादपि पावकात् धूमोत्पत्तिदर्शनात् , किन्तु कारणगतधर्मानुविधानं कार्यत्वाभ्युपगमनिबन्धनम् ; तच्च ज्ञानस्य प्रदर्शितं प्राक्।नच कायविज्ञानयोरिवानलधूमयोः सर्वथा वैलक्षण्यम्; पुद्गलविकारत्वेन द्वयोरपि सादृश्यात्। सर्वथा सादृश्ये च कार्यकारणभावाभावप्रसङ्गः, एकत्वप्राप्तेः । यत्तु सदृशतादृशविवेकः कार्यनिरूपणायामपि दुर्लभस्तत्र यः कार्यदर्शनादपि विवेक नावधारयितुं क्षमस्तस्यानुमानव्यवहारेऽनधिकार एव। तदुक्तम्। सुविवेचितं कार्य कारणं न व्यभिचरति, अतस्तदवधारणे यत्नो विधेयः। अत एव रूपादीनां हि रूपादिपूर्वकत्वेन चेत्याद्यनभिमतोपालम्भमात्रम् । कथञ्चित् सादृश्यस्य कार्यकारणयोर्दर्शि. तत्वात् ; तस्य च प्रकृते प्रमाणसिद्धत्वात् । यच्च सुप्तमूञ्छिताद्यवस्थासु विज्ञानाभावेन तत्पूर्वकत्वमुत्तरज्ञानस्य न संभवीत्यभिधायि। तदसत् । तदवस्थायां विज्ञानाभावग्राहकप्रमाणासंभवात् । तथाहि । न तावत् सुप्त एव तदवस्थायां विज्ञानाभावं

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200