Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 161
________________ तस्वबोधविधायिनी व्याख्या । १६१ दत्यन्तभिन्ने जन्मान्तरशरीरादौ ज्ञानसंचारो युक्तः । तदसत् । पूर्वोत्तरजन्मशरीरज्ञानसंचारकारिणः कार्मणशरीरस्यात एव कथञ्चिदेकत्वसिद्धेः । तथाहि । ज्ञानं तावदिहजन्मादावन्यनिजजन्मज्ञानप्रभवं प्रसाधितम् ; तस्य चेहजन्मबालकुमाराद्यवस्थाभेदेषु तदेवेदं शरीरमित्यबाधितप्रत्यभिज्ञाप्रत्ययावगतैकरूपान्वयिषु संचारदर्शनात् पूर्वोत्तरजन्मावस्थाखपि तथाभूतानुगामिरूपसमन्वितासु तस्य संचारोऽनुमीयते । नचास्मदादीन्द्रियसंवेद्यरूपाद्याश्रयस्यौदारिकशरीरस्य जन्मान्तरशरीराद्यवस्थाऽनुगमः संभवति; तस्य तदैव च दाहादिना ध्वंसोपलब्धेः । अतो जन्मद्वयावस्थाव्यापकस्योष्मादिधर्मानुगतस्य कार्मणशरीरस्य विज्ञानसंचारकारिणः सद्भावः सिद्धः । पूर्वोत्तरजन्मावस्थाव्यापकस्यावस्थातुस्तदवस्थाभ्यः कथश्चिदभेदात् ; मातापितृशरीरविलक्षणनिजशरीरावस्थाचपलताऽऽधनुविधाने, उत्तरावस्थायाः कथं नावस्थातृधर्मानुविधानम् । "तस्माद्यस्यैव संस्कारं नियमेनानुवर्तते । ___ शरीरं पूर्वदेहस्य तत्तदन्वयि युक्तिमत्” ॥ १॥ अथ पूर्वापरयोः प्रत्यक्षस्याप्रवृत्तेर्न कार्यकारणभावः; अनुमानभावसिद्धावितरेतराश्रयदोष इति । तदपि प्रतिविहितम् । एवं हि सर्वशून्यत्वमायातमिति कस्य दूषणं साधनं वा केन प्रमाणेन ?, इहलोकस्याप्यभावप्रसक्तेरिति प्रतिपादितत्वात् । अथ कार्यविशेषस्य विशिष्टकारणपूर्वकवसिद्धौ यथोक्तप्रकारेण भवतु पूर्वजन्मसिद्धिः, भाविपरलोकसिद्धिस्तु कथम् ? । भाविनि प्रमाणाभावात् । तत्रापि कार्यविशेषादेवेति ब्रूमः । तथाहि । कार्यविशेषो विशिष्टं सत्त्वमेव । तच्च न सत्तासंबन्धलक्षणम्। तस्य निषेत्स्यमानत्वात् । नाप्यर्थक्रियाकारित्वलक्षणम् । सन्ततिव्यवच्छेदे तस्याभावप्रसङ्गात् । तथाहि । शब्दबुद्धिप्रदीपादिसन्तानानां यद्युच्छेदोऽभ्युपगम्यते, तदा तत्सन्ततिचरमक्षणस्यापरक्षणाजननादसत्वम्; तदसत्त्वे च पूर्वपूर्वक्षणानामर्थक्रियाऽजननादसत्त्वमिति सन्तत्यभावः। अथ सन्तत्यन्तक्षणः सजातीयक्षणान्तराजननेऽपि सर्वज्ञसन्ताने खग्राहिज्ञानजनकत्वेन सन्निति नायं दोषः। तदसत्।स्वसन्ततिपतितोपादेयक्षणाजनकत्वे परसन्तानवर्तिस्वाहिज्ञानजनकत्वस्याप्यसंभवात्। नापादानकारणलाभावे सह २१

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200