Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 163
________________ तत्वबोधविधायिनी व्याख्या । १६३ ; प्रमाणतो नित्यज्ञानादिधर्म कलापान्वितस्य तस्याभ्युपगमात् । ननु युक्तमेतद्यदि तथाभूतपुरुषसद्भावप्रतिपादकं किञ्चित्प्रमाणं स्यात्, तच्च नास्ति । तथाहि । न प्रत्यक्षं तथाविधपुरुषसद्भावावेदकमस्मदादीनाम् अस्मद्विलक्षणयोगिभिस्तस्यावसाय इत्यत्रापि न किञ्चित् प्रमाणमस्ति । यदा न तत्स्वरूपग्रहणे प्रत्यक्षप्रमाणप्रवृत्तिः, तदा तद्गतधर्माणां नित्यज्ञानादीनां सद्भाववाचैव न संभवति । नानुमानमपि युक्तमेतत्स्वरूपावेदकम् । प्रत्यक्षनिषेधे तत्पूर्वकस्य तस्यापि निषेधात् । सामान्यतो दृष्टस्यापि नात्र विषये प्रवृत्तिः । लिङ्गस्य कस्यचित्तत्प्रतिपादकस्याभावात्, कार्यवस्य पृथिव्याद्याश्रितस्य केषाञ्चिन्मतेनासिद्धेः । नच संस्थानवत्त्वस्य तत्साधकत्वम् । प्रासादादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्यात्यन्तवैलक्षण्यात् । संस्थानशब्दवाच्यत्वेन चातिप्रसक्तिर्दर्शिता, “वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः” इत्यादिना । तस्मान्नानुमानं तत्साधनायालम् । नाप्यागमः । नित्यस्यात्र दर्शनेऽनभ्युपगमात् । अभ्युपगमे वा कार्यार्थप्रतिपादकस्य, सिद्धे वस्तुन्यव्यापृतेः । नापीश्वरपूर्वकस्य प्रामाण्यम् । इतरेतराश्रयदेोषप्रसङ्गात् । अनीश्वर पूर्वकस्यापि संभाव्यमानदोषत्वेन प्रप्राणताऽनुपपत्तेः । तस्यान्येश्वरपूर्वकत्वे, तस्यापि सिद्धिः कुत इति वक्तव्यम् । तदसिद्धौ, न तस्य प्रामाण्यम्; अनेकेश्वरप्रसङ्गदोषश्च । भवतु को दोषः । यत एकस्यापि साधने वयमतीवोत्सुकाः, किं पुनर्बहूनामिति चेत् । न कश्चित्प्रमाणाभावं मुक्त्वा । तन्नागमतोऽपि तत्प्रतिपत्तिः, एवं खरूपासिद्धौ कथं तस्य कारणता । अत्राहुः । यदुक्तम्, न तत्र प्रत्यक्षं प्रमाणम् । तदेवमेव । यदपि, सर्वप्रकारस्यागमस्य न तत्स्वरूपावेदने व्यापृतिः । तत्रोच्यते । आगमाव्यापारेऽपि तत्स्वरूपसाधकमनुमानं विद्यते । आगमस्यापि सिद्धेऽर्थे लिङ्गदर्शनन्यायेन यथा व्यापृतिस्तथा प्रतिपादयिष्यामः । प्रत्यक्षपूर्वकानुमाननिषेधे सिद्धसाधनम् । सामान्यतो दृष्टानुमानस्य तत्र व्यापाराभ्युपगमात् । नन्वनुमानप्रमाणतायामयं विचारो युक्ता - रम्भः, तस्यैव तु प्रामाण्यं नानुमन्यन्ते चावीका इति । एतच्चानुद्धोष्यम्। अनुमानप्रामाण्यस्य व्यवस्थापितत्वात् । यत्तूक्तम् । पृथिव्यादिगतस्य कार्यत्वस्याप्रति - पत्तेः, न तस्मादीश्वरावगमः । तत्र पृथिव्यादीनां बौद्धैः कार्यमभ्युपगतं, ते कथमेवं देयुः । येऽपि चार्वाकाद्याः पृथिव्यादीनां कार्यत्वं नेच्छन्ति, तेषामपि

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200