Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 135
________________ तत्त्वबोधविधायिनी व्याख्या । ल्पकप्रत्यक्षबलादूहाख्यप्रमाणाहा देशकालव्याप्त्या यथोक्तलक्षणस्य हेतोः प्रतिबन्धग्रहणे प्रवृत्तिरनुमानस्येति न व्याहतिः प्रकृतस्येति। एतदपि निरस्तम् ; के चित्प्रज्ञादय इति इत्यादि। नच प्रज्ञामेधादयः शरीरस्वभावान्तर्गता इत्यादि चोद्यं युक्तम् । तदन्तर्गतत्वेऽपि परिहारसंभवादन्वयव्यतिरेकाभ्यां तेषां मातापित्रोः पितृशरीरजन्यत्वस्य पितृशरीरं तर्हि हेतुभेदान्न भेदो मातापितृशरीरादपत्यप्रज्ञादीनाम् । अयमपरो बृहस्पतिमतानुसारिण एव दोषोऽस्तु, या कार्यभेदेऽपि कारणभेदं नेच्छति । अस्माकं तु हर्षविषादाद्यनेकविरुद्धधर्माकान्तस्य विज्ञानस्यान्तर्मुखाकारतया वेद्यस्य रूपरसगन्धस्पर्शादियुगपद्भाविबालकुमारयौवनवृद्धावस्थाद्यनेकक्रमभाविविरुद्धधर्माध्यासिततच्छरीरादेर्बाह्येन्द्रियप्रभवविज्ञानसमधिगम्या दः सिद्धएव । विरुद्धधर्माध्यासः, कारणभेदश्च पदार्थानां भेदकः । स च जलानलयोरिव शरीरविज्ञानयोर्विद्यत एवेति कथं न तयोर्भेदः । तद्भेदादप्यभेदे ब्रह्माद्वैतवादापत्तेस्तदवस्थ एव पृथिव्यादितत्त्वचतुष्टयाभावापत्त्या व्यवहारोच्छेदः। अथ वा मातापितृपूर्वजन्मैकसामग्रीजन्यमेतत् कार्यम् । एतत् न दोषोऽव्यतिरिक्तपक्षेऽपि विज्ञानशरीरयोः। पूर्वमप्युक्तं विलक्षणादप्यन्वयव्यतिरेकाभ्यां मातापितृशरीराद्विज्ञानमुपजायताम् ; नहि कारणाकारमेव सकलं कार्यमिति । तदप्यसत् । यतो नहि कारणविलक्षणं कार्य न भवतीत्युच्यते, अपि तु तदन्वयव्यतिरेकानुविधानात्तत्कार्यत्वम्। तथाहि । यद्यहिकारान्वयव्यतिरेकानुविधायि तत्तत्कार्यमिति व्यवस्थाप्यते । यथागुरुकर्पूरोणादिदाह्यदाहकपावकगतसुरभिगन्धाद्यन्वयव्यतिरेकानुविधायी धूमस्तकार्यतया व्यवस्थितः । एकसन्तत्यनुपतितशास्त्रसंस्कारादिसंस्कृतप्राक्तनविज्ञानधर्मान्वयव्यतिरेकानुविधायि च प्रज्ञामेधाधुत्तरविज्ञानमिति कथं न तत्कार्यमभ्युपगम्यते। तदनभ्युपगमे धूमादेरपि प्रसिद्धवयादिकार्यस्य तत्कार्यत्वाप्रसिद्धिरिति पुनरपि सकलव्यवहारोच्छेदः ।। "तस्माद्यस्यैव संस्कारं नियमेनानुवर्त्तते । तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम्" ॥१॥ प्रतिपादितश्च प्रमाणतः प्रतिनियतः कार्यकारणभावः सर्वज्ञसाधने कुसमयविसासणमितिपदव्याख्यां कुर्वद्भिर्न पुनरिहोच्यते । योऽपि शालूकदृष्टान्तेन

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200