Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 136
________________ १३६ सम्मतितकाख्यप्रकरणस्यव्यभिचारः । यथा गोमयादपि शालूकः, कश्चित् समानजातीयादपि शालूकादेव; तथा केचित् प्रज्ञामेधादयस्तदभ्यासात्; केचित् तु रसायनोपयोगात्; अपरे मातापितृशुक्रशोणितविशेषादेवेति । सोऽपि न सम्यग् । तत्रापि समानजातीयपूर्वाभ्याससंभवात् । अन्यथा समानेऽपि रसायनाद्युपयोगे यमलकयोः कस्यचित् कापि प्रज्ञामेधादिकमिति प्रतिनियमो न स्यात् । रसायनाधुपयोगस्य साधारणत्वादिति। नच प्रज्ञादीनां जन्मादौ, रसायनाभ्यासे च विशेषः । शालूकगोमयजन्यस्य तु शालूकादेस्तदन्यस्माद्विशेषो दृश्यते, कचिजातिस्मरणं च दर्शनमिति न युक्ता दृष्टकारणादेव मातापितृशरीरात् प्रज्ञामेधादिकार्यविशेषोत्पत्तिः । नच गोमयशालूकादेर्व्यभिचारविषयत्वेन प्रतिपादितस्यात्यन्तवैलक्षण्यम्। रूपरसगन्धस्पर्शवत्पुद्गलपरिणामत्वेन द्वयोरपि अवैलक्षण्यात्। विज्ञानशरीरयोश्चान्तहिर्मुखाकारविज्ञानग्राह्यतया स्वपरसंवेद्यतया स्वसंवेदनबाह्यकरणादिजन्यप्रत्ययानुभूयमानतया च परस्पराननुयाय्यनेकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यस्य प्रतिपादितत्वात्, नोपादानोपादेयभावो युक्तः । शरीरवृध्यादेश्चैतन्यवृयादिलक्षण उपादानोपादेयभावधर्मोपलम्भः प्रतिपाद्यते। असौ महाकायस्यापि मातङ्गाजगरादेचैतन्याल्पत्वेन व्यभिचारीति न तद्रावसाधकः। यस्तु शरीरविकाराच्चैतन्यविकारोपलम्भलक्षणस्तद्धर्मभावः प्रतिपाद्यतेऽसावपि सात्त्विकसत्त्वानामन्यगतचित्तानां वा छेदादिलक्षणशरीरविकारसद्भावेऽपि तच्चित्तविकारानुपलब्धेरसिद्धः । दृश्यते च सहकारिविशेषादपि जलभूम्यादिलक्षणाद् बीजोपादानस्याङ्कुरादेविशेष इति सहकारिकारणत्वेऽपि शरीरादेविशिष्टाहाराद्युपयोगादौ, यौवनावस्थायांवा शास्त्रादिसंस्कारोपात्तविशेषपूर्वज्ञानोपादानस्य विज्ञानस्य विवृद्धिलक्षणो विशेषो नासंभवी। यदप्युक्तम् । अनादिमातापितृपरम्परायां तथाभूतस्यापि बोधस्य व्यवहितमातापितृगतस्य सद्भावात् ततो वासनाप्रबोधेन युक्त एव प्रज्ञामेधादिविशेषस्य संभव इति। तदप्ययुक्तम् । अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसंभवात्। ततश्चक्षुरादिकरणजनितस्य स्वरूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत् क्रमेण चोत्पत्तौ मयैवोपलब्धमेतदिति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि स्यात् । नच मातापितृज्ञानोपलब्धेस्तदपत्यादेः कस्यचित्प्रत्यभिज्ञानमुपलभ्यते।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200