Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 152
________________ १५२ सम्मतितास्यप्रकरणस्यअथाननुप्रवेशेन, तदा नीलज्ञानपरमाण्यवभासानामयःशलाकाकल्पानां प्रतिभासनात्, कुतः स्थूलमेकनीलज्ञानसंवेदनम् ? । प्रतिनीलज्ञानपरमाण्ववभासं भिन्नत्वात् । अथ स्वसंवेदनावभासभेदे सत्यपि न तत्प्रतिभासस्य नीलज्ञानस्य भेदः । ननु कुतो नीलज्ञानस्याभेदः । किं तत् स्वसंवेदनाभेदात् , स्वतो वा । यदि खसंवेदनाभेदात् । तदयुक्तम् । तद्भेदस्य व्यवस्थापितत्वात्। अथ स्वत एव लदभेदः। तदप्ययुक्तम् । तस्याद्याप्यसिद्धत्वात् । तथा यदि दर्शनावस्थायां स्पर्शनावस्था न प्रतिभातीति तदवस्था व्याप्तिदर्शनज्ञानेनावस्थातुर्न ग्रहीतुं शक्या। नन्वेवं तदप्रतिभासनेन तद्व्याप्तिरपि कथं ग्रहीतुं शक्या ? । तदप्रतिभासने तत इदमवस्थातृरूपं व्यावृत्तमित्येतदपि ग्रहीतुमशक्यमेव । नच तद्विविक्तप्रतिभासादेव तद्व्याप्तिर्गृहीतैवेति वक्तुं युक्तम् । तदप्रतिभासने तद्विविक्तस्यैवाग्रहणात् । नच तद्व्याप्तिस्तस्य स्वरूपमेवेति दर्शनज्ञानेन तत्स्वरूपग्राहिणा तदभिन्नखरूपा तद्व्याप्तिरपि गृहीतैवेति युक्तम् । तद्याप्तावप्यस्य सर्वस्य समानत्वात् । नचाबाधितैकप्रत्ययविषयस्यात्मन एकत्वमसिद्धम् । नचास्यकलाध्यवसायस्य किञ्चिद्वाधकमास्ति । तद्बाधकलेन संभाव्यमानस्य प्रमाणस्य यथास्थानं निषेत्स्यमानवात् । भवतु वाऽनुसन्धानप्रत्ययलक्षणाद्धेतोस्तदेकलसिद्धिः, तथापि नेतरेतराश्रयदोषः। यतो नैकवप्रतिबद्धमनुसन्धानमन्वयिदृष्टान्तद्वारेण निश्चीयते, येनायं दोषः स्यात्; अपि त्वनेकत्वेऽनुसन्धानस्यासंभवात् ततो व्यावृत्तमनुसन्धानं तदेकत्वेन व्याप्यत इति एकसन्ताने स्मरणाद्यनुसन्धानदर्शनादनुमानतोऽपि तत्सिद्धिः । नच भेदे दर्शनस्मरणादिज्ञानानामनुसन्धानं संभवति । अन्यथा देवदत्तानुभूतेऽर्थे यज्ञदत्तस्य स्मरणाद्यनुसन्धानं स्यात् । अथ देवदत्तयज्ञदत्तयोरेकसन्तानाभावानानुसंधानम्; यत्र त्वेकः सन्तानस्तत्र पूर्वापरज्ञानयोरत्यन्तभेदेऽपि भवत्येवानुसन्धानम् । ननु सन्तानस्य यदि सन्तानिभ्यो भेद एकत्वं च; तदा शब्दा. न्तरेण स एवात्माऽभिहितो यत्प्रतिबद्धमनुसन्धानम् । अथ सन्तानिभ्योऽभिन्नः सन्तानः, तदा पूर्वोत्तरज्ञानक्षणानां सन्तानिशब्दवाच्यानां देवदत्तयज्ञदत्तज्ञानवदत्यन्तभेदात् तदभिन्नस्य सन्तानस्यापि भेद इति कुतोऽनुसन्धाननिमित्तबम् । अथैकसन्ततिपतितानां पूर्वोत्तरज्ञानसन्तानिनां कार्यकारणभावात्

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200