Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 151
________________ तत्त्वबोधविधायिनी व्याख्या । १५१ सारिणैतद्वक्तुं युज्यते । अहंप्रत्ययस्य सविकल्पकत्वेनाप्रत्यक्षत्वेन न तद्राह्यत्वमात्मन इति । सविकल्पकस्यैव प्रत्यक्षस्य प्रमाणत्वेन व्यवस्थापयिष्यमाणत्वात् । प्रत्यक्षविषयत्वेऽपि विप्रतिपत्तिसंभवेऽनुमानस्यावतारः। नच सिद्धे आत्मन एकत्वे तत्प्रतिबद्धोऽनुसन्धानप्रत्ययः सिध्धति, तत्सिद्धौ च ततस्तस्यैकत्वमितीतरेतराश्रयदोषावतारः। य एवाहं घटमद्राक्षं स एवेदानीं तं स्पृशामीति प्रत्ययात् प्रत्यभिज्ञाप्रत्यक्षस्वरूपादात्मन एकत्वसिद्धेः ।नचात्रैतत्प्रेर्यम् । द्रष्टरूपमात्मनः स्प्रष्ट्ररूपानुप्रवेशेन प्रतिभासते, आहोखिदननुप्रवेशेन । यद्यनुप्रवेशेन, तदा द्रष्ट्ररूपस्य स्प्रष्टरूपेऽनुप्रवेशात् स्प्रष्टरूपतैवेति न द्रष्टुरूपता, तथाचाहं द्रष्टा स्पृशामीति, कुत उभयावभासोल्लेख्येकं प्रत्यभिज्ञानम् ?, यतस्तदेकत्वसिद्धिः। अथाननुप्रवेशेन तदा दर्शनस्पर्शनावभासयोर्भेदात् कुत एकं प्रत्यभिज्ञानम्। नहि प्रतिभासभेदे सत्यप्येकत्वम्। अन्यथा घटपटप्रतिभासयोरपि तत्स्यात् । अथ प्रतिभासस्यैवात्र भेदो न पुनस्तद्विषयस्यात्मनः। कुतः पुनस्तस्याभेदः । न तावत्प्रतिभासाभेदात् । तस्य भिनत्वेन व्यवस्थापितत्वात् । नापि खतः। स्वतोऽद्यापि विवादविषयत्वात् । अथ दर्शनस्पर्शनावस्थाभेदेऽपिचिद्रूपस्य तदवस्थातुरभिन्नत्वान्नायं दोषः। तदप्यसङ्गतम्। यतो दर्शनावस्थाप्रतिभासेन तत्संबद्धमेवावस्थातृरूपं गृहीतं, न स्पर्शनज्ञानसंबन्धि । तत्र तदवस्थाया अनुत्पन्नत्वेनाप्रतिभासनात्; तदप्रतिभासने च तद्व्यापित्वेनावस्थातुरप्यप्रतिभासनात् । नापि स्पर्शनप्रतिभासेन दर्शनावस्थाव्याप्तिरवस्थातुरवगम्यते । स्पर्शनज्ञाने दर्शनस्य विनष्टत्वेनाप्रतिभासनात् । प्रतिभासने वाऽनाद्यवस्थापरम्पराप्रतिभासप्रसङ्गः। नच प्रागवस्थाऽप्रतिभासने तदवस्थाव्याप्तिरवस्थातुरवगन्तुं शक्या। यच्च येन रूपेण प्रतिभाति, तत्तेनैव सदित्यभ्युपगन्तव्यम् । यथा नीलं नीलरूपतया प्रतिभासमानं तेनैव रूपेणाभ्युपगम्यते । दर्शनस्पनिज्ञानाभ्यां च स्वसंबन्धित्वमेवावस्थातुर्गृह्यते इति तद्रूप एवासावभ्युपगन्तव्य इति कुतोऽवस्थातृसिद्धिः॥ यतो नीलप्रतिभासेऽप्येवं वक्तुं शक्यम् । किमेकनीलज्ञानपरमाण्ववभासोऽपरतन्नीलज्ञानपरमाण्ववभासानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन । यद्यनुप्रवेशेन, तदैकतन्नीलज्ञानपरमाण्ववभासानामनुप्रवेशान्नीलज्ञानसंवेदनस्यैकपरमाणुरूपत्वम् ; तस्य चाननुभघात्कुतो नीलज्ञानसंवेदनसिद्धिः।

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200