Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 150
________________ १५. सम्मतिताख्यप्रकरणस्यतृप्रमित्योरपि चिद्रूपयोरखसंविदितवं युक्तम्। अन्यखभावत्वानुपपत्तेः। यत्तूक्तम्। इन्द्रियव्यापारे सति शरीराद्यवच्छिन्नस्य विषयस्यैव केवलस्यावभासनमिति। तदत्य. न्तमसङ्गतम् । विषयस्येव तदवभाससंवेदनस्यापि व्यवस्थापितत्वात् । तदभावे विषयावभास एव न स्यादित्यस्य चातः प्रमात्रवभास उपपन्न एव । नच कृशोऽहं स्थूलोऽहमिति शरीरसामानाधिकरण्येनास्य प्रत्ययस्योपपत्तेस्तदालम्बनता । चक्षुरादिकरणव्यापाराभावे शरीरस्याग्रहणेऽपि अहमितिप्रत्ययस्य सुखादिसमा. नाधिकरणत्वेन परिस्फुटप्रतिभासविषयत्वेनोत्पत्तिदर्शनात् न शरीरालम्बनत्वमस्य व्यवस्थापयितुं युक्तम् । नच कृशोऽहमिति प्रत्ययस्य भ्रान्तले ज्ञानवानहमिति ज्ञानसामानाधिकरण्येनोपजायमानस्यापि प्रत्ययस्य भ्रान्तलं युक्तम् । अन्यथा अनिर्माणवक इति माणवकेऽग्निप्रत्ययस्योपचरितविषयस्य भ्रान्तत्वेऽनावपि तत्प्रत्ययस्योपचरितत्वेन भ्रान्तवं स्यात् । अथ तत्र पाटवपिङ्गलबादिलक्षणस्योपचारनिमित्तस्य सद्भावाद्भवति तत्रोपचरितः प्रत्ययः । नचात्रोपचारनिबन्धनं किश्चिदस्ति । तदप्यसङ्गतम्। संसार्यात्मनः शरीराद्युपकृतलेन तदनुबद्धस्योपभोगाश्रयत्वेनोपभोगकर्तृत्वस्याप्युपचारनिमित्तस्य सद्भावात्। दृष्टश्च शरीरादिव्यतिरिक्तेऽप्यत्यन्तोपकारके खभृत्यादावुपचरितस्तन्निमित्तो योऽयं भृत्यः सोऽहमिति प्रत्ययः । नच सुखादिसामानाधिकरण्येनोपजायमानस्यैवाहंप्रत्ययस्योपचरितविषयतेति वक्तुं शक्यम् । अनावग्निप्रत्ययवदबाधितत्वेनास्खलद्रूपत्वेन चास्याऽत्र मुख्यलात्; गौरत्वादेस्तु पुद्गलधर्मत्वेन बाह्येन्द्रियग्राह्यतयाऽन्तर्मुखाकारानिन्द्रियाहंप्रत्ययविषयत्वासंभवात्। नच गौरवादिरूपाश्रयभूतस्य प्रतिक्षणविशरारु वेनाभ्युपगमविषयस्य शरीरस्य य एवाहं प्राग्मित्रं दृष्टवान् स एवाहं वर्षपञ्चकादिव्यवधानेन स्पृशामीति स्थिरालम्बनत्वेनानुभूयमानप्रत्ययविषयत्वं युक्तम् । अन्यथा रूपविषयत्वेनानुभूयमानस्य तस्य रसाद्यालम्बनलं स्यात्। नच सुखादिविवर्तात्मकात्मालम्बनले किञ्चिद्वाधकमुत्पश्यामः; येन तद्विषयत्वेनास्य भ्रान्तत्वं स्यात् । नापि तत्र तस्य स्खलद्रूपता; येन वाहीके गोप्रत्ययस्येवोपचरितत्वकल्पना युक्तिमती स्यात्। तस्मादबाधितास्खलद्रूपाऽहंप्रत्ययग्राह्यत्वादात्मनो नासिद्धिः। शेषस्तु पूर्वपक्षग्रन्थो निःसारतया न प्रतिसमाधानमर्हतीत्युपेक्षितः। नचात्र बौद्धमतानु

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200