Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 141
________________ तत्त्वबोधविधायिनी व्याख्या । १४१ वादगोचरेऽध्यक्षप्रतीतेऽपि दृष्टान्तान्वेषणं लोके सुप्रसिद्धमिति; सोऽत्रापि वक्तव्यः। तदाऽस्त्येव प्रदीपादिलक्षणो दृष्टान्तोऽपि, ज्ञानस्य प्रकाशं प्रति सजातीयापरानपेक्षणे साध्ये । तथाहि । यथा प्रदीपाद्यालोको न खप्रतिपत्तावालोकान्तरमपेक्षते, तथा ज्ञानमपि स्वप्रतिपत्तौ न समानजातीयज्ञानापेक्षम्। एतावन्मात्रेणालोकस्य दृष्टान्तत्वं, न पुनस्तस्यापि ज्ञानत्वमासाद्यते । येनेन्द्रियाग्राह्यत्वाच्चक्षुष्मतामिवान्धानामपि तत्प्रतीतिप्रसङ्ग इति प्रेर्यते । नहि दृष्टान्ते साध्यधर्मिधर्माः सर्वेऽपि आसञ्जयितुं युक्ताः । अन्यथा घटेऽपि शब्दधर्माः शब्दत्वादयः प्रसज्येरनिति तस्यापि श्रोत्रग्राह्यत्वप्रसङ्गः । नच साधर्म्यदृष्टान्तमन्तरण प्रमाणप्रतीतस्थाप्यर्थस्याप्रसिद्धिरिति शक्यं वक्तुम् । अन्यथा जीवच्छरीरस्यापि सात्मकत्वे साध्ये तत्प्रसिद्धदृष्टान्तस्याभावात्प्राणादिमत्त्वादेस्तत्सिद्धिर्न स्यात् । अथ साधHदृष्टान्ताभावेऽपि दृष्टवैधर्म्यदृष्टान्तस्य घटादेः सद्भावात् केवलव्यतिरेकिबलात्तत्र तत्सिद्धिस्तर्हि यत्र स्वप्रकाशकत्वं नास्ति तत्रार्थप्रकाशकत्वमपि नास्ति, यथा घटादाविति व्यतिरेकदृष्टान्तसद्भावादर्थप्रकाशकत्वलक्षणाद्धेतोः खप्रकाशकत्वं विज्ञानस्य किमिति न सिद्धिमासादयति ? । यत्तूक्तम् । कस्यचिदर्थस्य काचित्सामग्री, तेन प्रकाशः प्रकाशान्तरनिरपेक्ष एव खग्राहिणि ज्ञाने प्रतिभाति । तदयुक्तमेव । यथा हि खसामग्रीत उपजायमानाः प्रदीपालोकादयो न समानजातीयमालोकान्तरं स्वग्राहिणि ज्ञाने प्रतिभासमाना अपेक्षन्ते, तथा खसामग्रीत उपजायमानं विज्ञानं स्वार्थप्रकाशस्वभावं स्वप्रतिपत्तौ न ज्ञानान्तरमपेक्षते । प्रतिनियतत्वात् खकारणायत्तजन्मनां भावशक्तीनाम् । यत्तु प्रदीपालोकादिकं सजातीयालोकान्तरनिरपेक्षमपि वप्रतिपत्तौ ज्ञानमपेक्षते, तत्तस्याज्ञानरूपत्वात् ; ज्ञानस्य च तद्विपर्ययस्वभावत्वात् युक्तियुक्तमिति नैकत्र दृष्टः खभाव अन्यत्रासञ्जयितुं युक्त इति पूर्वपक्षवचो निःसारतया व्यवस्थितम् । अथालोकस्य तदन्तरनिरपेक्षा प्रतिपत्तिरुपलब्धेति न तदृष्टान्तबलात् ज्ञानस्यापि ज्ञानान्तरनिरपेक्षा प्रतिपत्तिः। अदृष्टत्वात् , स्वात्मनि क्रियाविरोधाच्च। नन्वेवमुपलभ्यमानेऽपि वस्तुनि यद्यदृष्टत्वं, विरोधश्वोच्येत, तदा खात्मवत् घटादेरपि बाह्यस्य न ग्राहकं ज्ञानम्, अदृष्टत्वात् , जडस्य प्रकाशायोगाच्चेत्यपि वदतः सौ

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200