Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 134
________________ सम्मतितकाख्यप्रकरणस्य प्रत्यक्षमभ्युपगतम् । सर्वथा सामान्यद्वारण व्यक्तीनामतद्रूपपरावृत्तव्यक्तिरूपेण वा तासां प्रतिबन्धोऽभ्युपगन्तव्यः । अन्यथाऽप्रतिबद्धादन्यतोऽन्यप्रतिपत्तावतिप्रसङ्गात् । प्रतिबन्धप्रसाधकं च प्रमाणमवश्यमभ्युपगमनीयम् । अन्यथाऽगहीतप्रतिबन्धत्वादन्यतोऽन्यप्रतिपत्तावपि प्रसङ्गस्तदवस्थ एव। यत्र गृहीतप्रतिबन्धो ऽसावर्थ उपलभ्यमानः साध्यसिद्धिं विदधाति, तद्धर्मता तस्य पक्षधर्मत्वस्वरूपा; तद्ग्राहकं च प्रमाणं प्रत्यक्षमनुमानं वा । तदुक्तं धर्मकीर्तिना । “पक्षधर्मतानिश्चयः प्रत्यक्षतोऽनुमानतो वा" अतो लोकप्रसिद्धतान्त्रिकलक्षणलक्षितानुमानयोर्भेदाभावादतीन्द्रियपरलोकाद्यर्थसाधकत्वमपि तस्यैवेति तत्प्रामाण्यानभ्यु. पगमे इहलोकस्यापि अभ्युपगमाभावप्रसङ्गः । नच किमत्र निर्विकल्पकं मानसं योगिप्रत्यक्षमूहो वा प्रतिबन्धनिश्वायकम् , प्रतिबन्धोऽपि नियतसाहचर्यलक्षणः, कार्यकारणभावादिति चिन्ताऽत्रोपयोगिनी । धूमादमिप्रतिपत्तिवत् प्रज्ञामेधादिविज्ञानकार्यविशेषान्निजजन्मान्तरविज्ञानस्वभावपरलोकप्रतिपत्तिसिद्धेः । अतोऽनुमानाप्रामाण्यप्रतिपादनाय पूर्वपक्षवादिना यथुक्तिजालमुपन्यस्तं, तन्निरस्तं द्रष्टव्यम् । प्रतिपदमुच्चार्य न दूष्यते, ग्रन्थगौरवभयात् । यदप्युक्तम् । परलोके प्रत्यक्षस्याप्रवृत्तेरापत्तिरेवेयमिहजन्मान्यथाऽनुपपत्त्या परलोकसद्भाव इति । तदपि न सम्यक् । पूर्वानुसारेण सर्वस्य नियतप्रत्ययस्य प्रवृत्तेरनुमानत्वप्रतिपादनात्। अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वान्नात्रानुमानमिति चेत् ; नन्वेवं तदेवाद्वैतं शून्यत्वं वा कस्य केन दोषाभिधानम्। तस्मात् संव्यवहारकारिणा प्रत्यक्षेणोहेन वा प्रतिबन्धसिद्धिरिति कथं नानुमानात्परलोकसिद्धिः । यदप्युक्तम् । मातापितृसामग्रीमात्रेणेहजन्मसंभवान्न तज्जन्मव्यतिरिक्तभूतपरलोकसाधनं युक्त मिति । तदपि प्रतिविहितमेव । समनन्तरप्रत्यक्षस्य भावात् । स्वप्नादिप्रत्ययवन्न प्रत्यक्षाद् बाह्यार्थसिद्धिरपीति बौद्धाभिमतपक्षसिद्धिप्रसङ्गः । अतस्तत्त्वात् । यदपि प्रतिपादितम् ; सन्निहितमात्रविषयत्वात् प्रत्यक्षस्य देशकालव्याप्त्या प्रतिबन्धग्रहणासामर्थ्यमिति । तदपि न किञ्चित् । एवं सति अतिसन्निहितविषयत्वेन प्रत्यक्षस्य खरूपमात्र एवं प्रवृत्तिप्रसङ्ग इति तदेव बौद्धाद्यभिमतं खसंवेदनमात्रं सर्वव्यवहारोच्छेदकारि प्रसक्तमिति प्रतिपादितखात् । तस्माल्लोकव्यवहारप्रवर्तनक्षमसविक

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200