Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 128
________________ स्य १२८ सम्मतिताख्यप्रकरणस्यक्षया।अतएव लक्षणलक्षितप्रत्यक्षपूर्वकानुमानस्य, अनुमानमप्रमाणमित्यादि ग्रन्थसन्दर्भेणाप्रामाण्यप्रतिपादनं विधीयते; न पुनर्गोपालाद्यज्ञलोकव्यवहाररचनाचतुरस्य धूमदर्शनमात्राविर्भूतानलप्रतिपत्तिरूपस्य । नैतच्चारु । तस्यापि महानसादिदृष्टान्तधर्मिप्रवृत्तप्रमाणावगतस्वसाध्यप्रतिबन्धनिश्चितसाध्यमिधर्मधूमबलोद्भूतत्वेन तान्त्रिकलक्षणलक्षितप्रत्यक्षपूर्वकत्वस्य वस्तुतः प्रदर्शितत्वात्। एतत्पक्षधमत्वमियं चास्य धूमस्य व्याप्तिरिति साङ्केतिकव्यवहारस्य गोपालादिमूर्खलोकासंभविनोऽकिञ्चित्करत्वात् । प्रत्यक्षस्य चाविसंवादित्वं प्रामाण्यलक्षणं तद्यथा संभवति, तथा परतःप्रामाण्यं व्यवस्थापयद्भिः सिद्धम्" इत्येतत्पदव्याख्यायां दर्शितं, न पुनरुच्यते। तत् स्थितमेतन्न प्रत्यक्षस्य भवदभिप्रायेण प्रामाण्यव्यवस्थापकलक्षणसंभवः । तद्भावे चानुमानस्यापि प्रामाण्यप्रसिद्धिरिति न प्रत्यक्ष पर्यनुयोगविधायि। नाऽप्यनुमानादिकं पर्यनुयोगकारि ।अनुमानादेः प्रमाणत्वेनानभ्युपगमात् । अथास्माभिर्यद्यप्यनुमानादिकं न प्रमाणतयाऽभ्युपगम्यते, तथापि परेण तत्प्रमाणतयाऽभ्युपगतमिति तत्प्रसिद्धेन तेन परस्य पर्यनुयोगो विधीयते। ननु परस्य तत्प्रमाणतः प्रामाण्याभ्युपगमविषयः, अथाप्रमाणतः। यदि प्रमाणतः, तदा भवतोऽपि प्रमाणविषयस्तत् स्यात् । नहि प्रमाणतोऽभ्युपगमः कस्यचिद्भवति, कस्यचिन्नेति युक्तम् । अथाप्रमाणतोऽनुमानादिकं प्रमाणतयाऽभ्युपगम्यते परेण, तदाऽप्रमाणेन न तेन पर्यनुयोगो युक्तः । अप्रमाणस्य परलोकसाधनवत्तत्साधकप्रमाणपर्यनुयोगेऽप्यसामर्थ्यात्। अथ तेन प्रमाणलक्षणापरिज्ञानात्तत्प्रामाण्यमभ्युपगतमिति तत्सिद्धेनैव तेन परलोकादिसाधनाभिमतप्रमाणपर्यनुयोगः क्रियते । नन्वज्ञानात्तत्परस्य प्रमाणवेनाभिमतम् ; नचाज्ञानादन्यथावेनाभिमन्यमानं वस्तु तत्साध्यामर्थक्रियां निवर्त्तयति । अन्यथा विषलेनाज्ञैर्मन्यमानं महौषधादिकमपि तान्मारयितुकामेन दीयमानं खकार्यकरणक्षमं स्यात् । अथ नास्माभिः परलोकप्रसाधकप्रमाणपर्यनुयोगोऽनुमानादिना स्वतन्त्रप्रसिद्धप्रामाण्येन, पराभ्युपगमावगतप्रामाण्येन वा क्रियते; किं तर्हि यदि परलोकादिकोऽतीन्द्रयोऽर्थः परेणाभ्युपगम्यते, तदा तत्पातपादकं प्रमाणं वक्तव्यम् । प्रमाणनिबन्धना हि प्रमेयव्यवस्थितिः। तस्य च प्रमाणस्य तल्लक्षणाद्यसंभवेन तद्विषयाभिमतस्याप्य

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200