________________
स्य
१२८
सम्मतिताख्यप्रकरणस्यक्षया।अतएव लक्षणलक्षितप्रत्यक्षपूर्वकानुमानस्य, अनुमानमप्रमाणमित्यादि ग्रन्थसन्दर्भेणाप्रामाण्यप्रतिपादनं विधीयते; न पुनर्गोपालाद्यज्ञलोकव्यवहाररचनाचतुरस्य धूमदर्शनमात्राविर्भूतानलप्रतिपत्तिरूपस्य । नैतच्चारु । तस्यापि महानसादिदृष्टान्तधर्मिप्रवृत्तप्रमाणावगतस्वसाध्यप्रतिबन्धनिश्चितसाध्यमिधर्मधूमबलोद्भूतत्वेन तान्त्रिकलक्षणलक्षितप्रत्यक्षपूर्वकत्वस्य वस्तुतः प्रदर्शितत्वात्। एतत्पक्षधमत्वमियं चास्य धूमस्य व्याप्तिरिति साङ्केतिकव्यवहारस्य गोपालादिमूर्खलोकासंभविनोऽकिञ्चित्करत्वात् । प्रत्यक्षस्य चाविसंवादित्वं प्रामाण्यलक्षणं तद्यथा संभवति, तथा परतःप्रामाण्यं व्यवस्थापयद्भिः सिद्धम्" इत्येतत्पदव्याख्यायां दर्शितं, न पुनरुच्यते। तत् स्थितमेतन्न प्रत्यक्षस्य भवदभिप्रायेण प्रामाण्यव्यवस्थापकलक्षणसंभवः । तद्भावे चानुमानस्यापि प्रामाण्यप्रसिद्धिरिति न प्रत्यक्ष पर्यनुयोगविधायि। नाऽप्यनुमानादिकं पर्यनुयोगकारि ।अनुमानादेः प्रमाणत्वेनानभ्युपगमात् । अथास्माभिर्यद्यप्यनुमानादिकं न प्रमाणतयाऽभ्युपगम्यते, तथापि परेण तत्प्रमाणतयाऽभ्युपगतमिति तत्प्रसिद्धेन तेन परस्य पर्यनुयोगो विधीयते। ननु परस्य तत्प्रमाणतः प्रामाण्याभ्युपगमविषयः, अथाप्रमाणतः। यदि प्रमाणतः, तदा भवतोऽपि प्रमाणविषयस्तत् स्यात् । नहि प्रमाणतोऽभ्युपगमः कस्यचिद्भवति, कस्यचिन्नेति युक्तम् । अथाप्रमाणतोऽनुमानादिकं प्रमाणतयाऽभ्युपगम्यते परेण, तदाऽप्रमाणेन न तेन पर्यनुयोगो युक्तः । अप्रमाणस्य परलोकसाधनवत्तत्साधकप्रमाणपर्यनुयोगेऽप्यसामर्थ्यात्। अथ तेन प्रमाणलक्षणापरिज्ञानात्तत्प्रामाण्यमभ्युपगतमिति तत्सिद्धेनैव तेन परलोकादिसाधनाभिमतप्रमाणपर्यनुयोगः क्रियते । नन्वज्ञानात्तत्परस्य प्रमाणवेनाभिमतम् ; नचाज्ञानादन्यथावेनाभिमन्यमानं वस्तु तत्साध्यामर्थक्रियां निवर्त्तयति । अन्यथा विषलेनाज्ञैर्मन्यमानं महौषधादिकमपि तान्मारयितुकामेन दीयमानं खकार्यकरणक्षमं स्यात् । अथ नास्माभिः परलोकप्रसाधकप्रमाणपर्यनुयोगोऽनुमानादिना स्वतन्त्रप्रसिद्धप्रामाण्येन, पराभ्युपगमावगतप्रामाण्येन वा क्रियते; किं तर्हि यदि परलोकादिकोऽतीन्द्रयोऽर्थः परेणाभ्युपगम्यते, तदा तत्पातपादकं प्रमाणं वक्तव्यम् । प्रमाणनिबन्धना हि प्रमेयव्यवस्थितिः। तस्य च प्रमाणस्य तल्लक्षणाद्यसंभवेन तद्विषयाभिमतस्याप्य