________________
तत्त्वबोधविधायिनी व्याख्या।
१२९ भाव इति; एवं विचारणालक्षणः पर्यनुयोगः क्रियते इति न स्वतन्त्रानुमानोपन्यासपक्षधर्म्यसियादिलक्षणदोषावकाशो बृहस्पतिमतानुसारिणाम् । नन्वेवमप्यनया भङ्गया भवता परलोकाद्यतीन्द्रियार्थप्रसाधकप्रमाणपर्यनुयोगे प्रसङ्गसाध. नाख्यमनुमानं, तद्विपर्ययस्वरूपं चस्ववाचैव प्रतिपादितं भवति । तथाहि । प्रमाणनिबन्धना प्रमेयव्यवस्थितिरिति एवंवदता प्रमेयव्यवस्था प्रमाणनिमित्तैव प्रतिपादिता भवति । एतच प्रसङ्गसाधनम् । तच्च व्याप्यव्यापकभावे सिद्धे यत्र व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः प्रदीत इत्येवंलक्षणम् । तेन प्रमेयव्यवस्था प्रमाणप्रवृत्त्या व्याप्ता प्रमाणतो भवता प्रदर्शनीया। अन्यथा प्रमाणप्रवृत्तिमन्तरेणापि प्रमेयव्यवस्था स्यात् । ततश्च कथं परलोकादिसाधकप्रमाणपर्यनुयोगेऽपि परलोकव्यवस्था न भवेत् ? । व्याप्यव्यापकभावनाहकप्रमाणाभ्युपगमे च कथं कार्यहेतोः स्वभावहेतोर्वा परलोकादिप्रसाधकत्वेन प्रवर्त्तमानस्य प्रतिक्षेपः । व्याप्तिप्रसाधकप्रमाणसद्भावेऽनुमानप्रवृत्तेरनायाससिद्धत्वात् । प्रमाणाभावे तन्निबन्धनायाः प्रमेयव्यवस्थाया अप्यभाव इति प्रसङ्गविपर्ययः । सच व्यापकाभावे व्याप्यस्याप्यभाव इति एवंभूतव्यापकानुपलब्धिसमुद्भूतानुमानस्वरूपम् । एतदपि प्रसङ्गविपर्ययरूपमनुमानं प्रमाणतो व्याप्यव्यापकसिद्धौ प्रवर्तत इति व्याप्तिप्रसाधकस्य प्रमाणस्य तत्प्रसादलभ्यस्य चानुमानस्य प्रामाण्ये खवाचैव भवता दत्तः वहस्त इति नानुमानादिप्रामाण्यप्रतिपादनेऽस्माभिःप्रयस्यते । अतो यदुक्तम् ; सर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेरिति । तदभिधेयशून्यमिव लक्ष्यते। उक्तन्यायात् । यत्तूक्तम् , प्रत्यक्षं सन्निहितविषयत्वेन चक्षुरादिप्रभवं परलोकादिग्राहकत्वेन न प्रवर्त्तते । तत्र सिद्धसाधनम् । यच्चोक्तम् । नाप्यतीन्द्रियं योगिप्रत्यक्षं, परलोकवत्तस्यासिद्धेरिति । तद्विस्मरणशीलस्य भवतो वचनम्।अतीन्द्रियार्थप्रवृत्तिप्रवणस्य योगिप्रत्यक्षस्यानन्तरमेव प्रतिपादितत्वात् । यत्पुनरिदमुच्यते । नापि प्रत्यक्षपूर्वकमनुमानं तदभावे प्रवर्तते । तदसङ्गतम् । प्रत्यक्षेण हि संबन्धग्रहणपूर्व परोक्षे पावकादौ यथाऽनुमानं प्रवर्त्तमानमुपलभ्यते, स एव न्यायः परलोकसाधनेऽप्यनुमानस्य किमित्यदृष्टो दृष्टो वा । तथाहि । यत् कार्य तत् कार्यान्तरोद्भूतम्, यथा पटादिलक्षणं कार्यम् ; कार्य चेदं जन्म इति
१७