________________
सम्मतिताख्यप्रकरणस्यभवत्यतो हेतोः परलोकसिद्धिः। .. तथाहि
" नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसंभवः” ॥ १ ॥ इति न तावत् कार्यत्वमिहजन्मनो न सिद्धम्। अकार्यत्वे हेतुनिरपेक्षस्य नित्यं सत्त्वासत्त्वप्रसङ्गात्। अथ स्वभावत एव कादाचित्कवं पदार्थानां भविष्यति। नहि कार्यस्य कारणभावपूर्वकत्वं प्रत्यक्षत उपलब्धम् , येन तदभावान्निवर्तेत; प्रत्यक्षतः कार्यकारणभावस्यैवासिद्धेः । यद्येवं, बाह्येनाप्यर्थेन सह कार्यकारणभावस्यासिद्धेः, स्वसंवेदनमात्रत्वे सत्यद्वैतं; विचारतस्तस्याप्यभावे सर्वशून्यत्वमिति सकलव्यवहारोच्छेदप्रसक्तिः । तस्माद्यथा प्रत्यक्षेण बाह्यार्थप्रतिबद्धत्वमात्मनः प्रतीयते; अन्यथेहलोकस्याप्यप्रसिद्धेः प्रत्यक्षतः तज्जन्यस्वभावत्वानवगमे तस्य तद्ग्रा. हकत्वासंभवात् ; तथा चेहलोकसाधनार्थमङ्गीकर्त्तव्यं प्रत्यक्षं स्वार्थेनात्मनः प्रतिबन्धसाधकं; तथा परलोकसाधनार्थमपि तदेव साधनमिति सिद्धः परलोकोऽनु. मानतः । यथा च बाह्यार्थप्रतिबद्धत्वं प्रत्यक्षस्य कादाचित्कत्वेन साध्यते, धूमस्यापि वह्निप्रतिबद्धत्वं; तथेहजन्मनोऽपि कादाचित्कत्वेन जन्मान्तरप्रतिबद्धत्वमपि । ततोऽनलबाह्यार्थवत्परलोकेऽपि सिद्धमनुमानम् । अथेहजन्मादिभूतमातापितृसामग्रीमात्रादप्युत्पत्तेः कादाचित्कत्वं युक्तमेवेहजन्मनः । नन्वेवं प्रदेशसमनन्तरप्रत्ययमात्रसामग्रीविशेषादेव धूमप्रत्यक्षसंवेदनयोः कादाचित्कत्वमिति न सिद्ध्यति वहिबाह्यार्थप्रतीतिरिति सकलव्यवहाराभावः । अथाकारविशेषादेवानन्यथात्वसंभविनोऽनलबाह्यार्थसिद्धिः; तर्हि इहजन्मनोऽपि प्रज्ञामेधाद्याकारविशेषत एव मातापितृव्यतिरिक्तनिजजन्मान्तरसिद्धिः। तथा। यथाऽऽकारविशेष एवायं तैमिरिकादिज्ञानव्यावृत्तःप्रत्यक्षस्य बाह्यार्थमन्तरेण न भवतीति निश्चीयते; अन्यथा बाह्या
सिद्धेबौद्धाभिमतसंवेदनाद्वैतमेवेति पुनरपि व्यवहाराभावः; तथेहजन्मादिभूतप्रज्ञाविशेषादिजन्मविशेषाकारो निजजन्मान्तरप्रतिबद्ध इति निश्चीयतामनुमानतः। अथ प्रत्यक्षमेव सविकल्पकं परमार्थतः प्रतिपत्तुः "ततः परं पुनर्वस्तुधर्मैःइत्यादि मीमांसकादिप्रसिद्ध साधकं वह्निबाह्यार्थपूर्वकत्वस्य धूमजाग्रत्पुरोवृत्तिस्तम्भादिप्रत्य