________________
. तत्त्वबोधविधायिनी व्याख्या ।
१२७ मानादर्थनिर्णयो दुर्लभ इति चोद्यावसरः। प्रत्यक्षप्रामाण्यलक्षणेऽपि क्रियमाणेऽस्य सर्वस्य समानदेन प्रतिपादितत्वात् । यदा चाविसंवादित्वलक्षणप्रत्यक्षप्रामाण्यलक्ष्ययोः सर्वोपसंहारेण व्याप्तिरभ्युपगम्यते; अविसंवादित्वलक्षणश्च प्रामाण्यव्यवस्थापको धर्मस्तत्राङ्गीक्रियते पूर्वोक्तन्यायेन तदा कथमनुमानं नाभ्युपगम्यते प्रमाणतया। तथाहि। यत्किञ्चिद् दृष्टं तस्य यत्राविनाभावस्तद्विदस्तस्य तद्गमकं सत्रेत्येतावन्मात्रमेवानुमानस्यापि लक्षणम् । तच्च प्रत्यक्षप्रामाण्यलक्षणमभ्युपगच्छताऽभ्युपगम्यते देवानांप्रियेण । तथा प्रामाण्यमप्यनुमानस्याभ्युपगतमेव; यतो यदेवाविसंवादित्वलक्षणं प्रत्यक्षस्य प्रामाण्यम्, अनुमानस्यापि तदेव ॥ तदुक्तम्
"अर्थत्यासंभवेऽभावात् प्रत्यक्षेऽपि प्रमाणता ।
प्रतिबद्धखभावस्य तहेतुले समं द्वयम्" ॥ १ ॥ इति । अर्थासंभवेऽभावःप्रत्यक्षस्य संवादस्वभावः प्रामाण्ये निमित्तम् । स च साध्यार्थाभावेऽभाविनो लिङ्गादुपजायमानस्यानुमानस्यापि समान इति कथं न तस्यापि प्रामाण्याभ्युपगमः।किंच।अयं चार्वाकः प्रत्यक्षैकप्रमाणवादी यदि परेभ्यः प्रत्यक्षलक्षणमनवबुद्ध्यमानेभ्यस्तत् प्रतिपादयति, तदा तेषां ज्ञानसंबन्धिलं कुतः प्रमाणादवगच्छति।न तावत्प्रत्यक्षात्। परचेतोवृत्तीनां प्रत्यक्षतो ज्ञातुमशक्यत्वात् ; किं तर्हि स्वात्मनि ज्ञानपूर्वको व्यापारव्याहारौ प्रमाणतो निश्चित्य परेष्वपि तथाभूततद्दर्शनातत्संबन्धित्वलक्षणमवबुध्यते, ततस्तेभ्यस्तत्प्रतिपादयति।तथाऽभ्युपगमे च व्यापारव्याहारादेर्लिङ्गस्य ज्ञानसंबन्धित्वलक्षणखसाध्याव्यभिचारिलं पक्षधर्मवंचाभ्युपगतं भवतीति कथमनुमानोत्थापकस्यार्थस्य त्रैरूप्यमसिद्धम् ; येन नास्माभिरनुमानप्रतिक्षेपः क्रियते, किंतु त्रिलक्षणं यदनुमानवादिभिलिङ्गमभ्युपगतं, तन्न लक्षणभाग् भवतीति प्रतिपाद्यत इति वचः शोभामनुभवति । प्रत्यक्षलक्षणप्रतिपादनार्थ परचेतोवृत्तिपरिज्ञानाभ्युपगमे, त्रिलक्षणहेलभ्युपगमस्यावश्यंभावित्वप्रतिपादनात्। अथ नास्माभिः प्रत्यक्षमपि प्रमाणत्वेनाभ्युपगम्यते; येन तल्लक्षणप्रणयनेऽवश्यंभाव्यनुमानप्रामाण्याभ्युपमम इत्यस्मान् प्रति भवद्भिः प्रतिपाद्येत । यत्तु प्रत्यक्षमेवैकं प्रमाणमिति वचनं, तत्तान्त्रिकलक्षणालक्षितलोकसंव्यवहारिप्रत्यक्षापे