________________
१२६
सम्मतिताख्यप्रकरणस्यसङ्ग।स चाविनाभावस्तस्य कुतश्चित्प्रमाणादवगन्तव्यः। अनवगतप्रतिबन्धाद
र्थान्तरप्रतिपत्तौ नालिकेरद्वीपवासिनोऽप्यनवगतप्रतिबन्धाद् धूमात्,धूमध्वजप्रतिपत्तिः स्यात् । अविनाभावावगमश्चाखिलदेशकालव्याप्त्या प्रमाणतोऽभ्युपगमनीयः। अन्यथा यस्यामेव प्रत्यक्षव्यक्तौ संवादित्वप्रामाण्ययोरसाववगतस्तस्यामेवाविसंवादित्वात्तत्सियेत्, न व्यक्त्यन्तरे । तत्र तस्यानवगमात् । नचाक्गतलक्ष्यलक्षणसंबन्धा व्यक्तिर्देशकालान्तरमनुवर्तते । तस्याः प्रत्यक्षव्यक्तेस्तदैव ध्वंसात् ; व्यक्त्यन्तराननुगमात्।अनुगमे घाव्यक्तिरूपताविरहानुगतस्य सामान्यरूपत्वात् , तस्य च भवताऽनभ्युपगमात् । अम्युपगमे वा न सामान्यलक्षणानुमानविषयाभावप्रतिपादनेन तत्प्रतिक्षेपो युक्तः। सच प्रमाणतः प्रत्यक्ष लक्ष्यलक्षणयोर्व्याप्त्याविनाभावावगमो यदि प्रत्यक्षादभ्युपगम्यते। तदयुक्तम् । प्रत्यक्षस्य सन्निहितस्वविषयप्रतिभासमात्र एव भवता व्यापाराभ्युपगमात्। अथैकत्र व्यक्तौ प्रत्यक्षेण तयोरविसंवादित्वप्रामाण्ययोरविनाभावावगमादन्यत्राप्येवंभूतं प्रत्यक्षं प्रमाणमिति प्रत्यक्षेणापि लक्ष्यलक्षणयोर्व्याप्त्या प्रतिबन्धावगमः, तर्धन्यत्राऽप्येवंभूतं ज्ञानलक्षणं कार्यमेवंभूतज्ञानकार्यप्रभवमिति तेनैव कथं न सर्वोपसंहारेण कार्यलक्षणहेतोः स्वसाध्याविनाभावावगमः। येनानुमानमप्रमाणमविनामावसंबन्धस्य व्याप्त्या ग्रहीतुमशक्यत्वादिति दूषणमनुमानवादिनं प्रति भवता सज्यमानं शोभते । किं च। अविसंवादिवलक्षणो धर्मः प्रत्यक्षप्रामाण्यलक्ष्यव्यवस्थापकः प्रत्यक्षप्रतिबद्धत्वेन निश्चयः। अन्यथा तत्रैव ततः प्रामाण्यलक्षणलक्ष्यव्यवस्था न स्यात्। असंबद्धस्थ केनचित्सह प्रत्यासत्तिविप्रकर्षाभावात्, तदन्यत्रापि ततस्तव्यवस्थाप्रसङ्गः । तथाऽभ्युपगमे च यथा संवादित्वलक्षणो धर्मो लक्ष्यानवगमेऽपि प्रत्यक्षधर्मिसंबन्धि
वेनावगम्यते, तथा धूमोऽपि पर्वतैकदेशे अनलानवगतावपि प्रदेशसंबन्धितयाऽवगम्यत इति कथं समुदायः साध्यः, तदपेक्षया च पक्षधर्मलं हेतोरवगन्तव्यम् । नच पक्षधर्मवाप्रतिपत्तौ साध्यधर्मानलविशिष्टतत्प्रदेशप्रतिपत्तिः। प्रतिपत्तौ वा पक्षधर्मवाद्यनुसरणं व्यर्थम्। तत्प्रतिपत्तेः प्रागेव तदुत्पत्तेः। समुदायस्य साध्यलेनोपचारात्तदेकदेशर्मिधर्मवावगमेऽपि पक्षधर्मवावगमाददोषे उपचरितं पक्षधर्मलं हेतोः स्यादिति अनुमानस्य गौणखापत्तेः प्रमाणस्यागौणत्वादनु