________________
तत्त्वबोधविधायिनी व्याख्या।
१२५
कानुभवितव्यतिरेकेणानुसन्धानं संभवति। भिन्नानुभवितर्यनुसन्धानादृष्टेः। तदयुक्तम् । परलोकिनोऽभावात्, परलोकाभाव इति वचनात् । नानाद्यनन्त आत्मा प्रत्यक्षप्रमाणप्रसिद्धः; अनुमानेन चेतरेतराश्रयदोषप्रसङ्गः । सिद्धे आत्मन्येकरूपेणानुसन्धानविकल्पस्याविनाभूतत्वे आत्मसिद्धिस्तत्सिद्धेश्वानुसन्धानस्य तदविनाभूतत्वसिद्धिरितीतरेतराश्रयसद्भावान्नैकस्यापि सिद्धिः; नचासिद्धमसिद्धेन साध्यते। किंच । दर्शनानुसन्धानयोः पूर्वापरभाविनोः कार्यकारणभावः प्रत्यक्षसिद्धस्तत्कुतोऽनुसन्धानस्मरणादात्मसिद्धिः । अपि च । शरीरान्तर्गतस्य ज्ञानस्यामूर्तबेन कथं जन्मान्तरशरीरसंचारः। अथान्तराभवशरीरसन्तत्या संचरणमुच्यते; तदपि परलोकान्न विशिष्यते। संचारश्च न दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगममेतन्न परलोकसिद्धिः । अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसं. बन्धासिद्धेय॑र्थमेवानुमानेन परलोकास्तित्वसाधनम्। अथागमात्प्रतिनियतकर्मफलसंबन्धसिद्धिः । तथा सति परलोकास्तित्वमप्यागमादेव सिद्धमिति किमनुमानप्रयासेन।नचागमादपि परलोकसिद्धिः। तस्य प्रामाण्यासिद्धेः। नचाप्रमाणसिद्ध परलोकादिकमभ्युपगन्तुं युक्तम् । तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । तन्न परलोकसाधकप्रमाणप्रतिपादनमकृत्वा भवशब्दव्युत्पत्तिरर्थसंस्पर्शिन्यभिधातुं युक्ता। डित्थादिशब्दव्युत्पत्तितुल्या तु यदि क्रियेत, तदा नास्माभिरपि तत्प्रतिपादकप्रमाणपर्यनुयोगे मनः प्रणिधीयत इति पूर्वपक्षः॥
॥ अत्रोच्यते ॥ यदुक्तम् ; पर्यनुयोगमात्रमस्माभिः क्रियत इति। तत्र वक्तव्यम् । पर्यनुयोगोऽपि क्रियमाणः किं प्रमाणतः क्रियते, उताप्रमाणतः । यदि प्रमाणतः । तदयुक्तम् । यतस्तत्कार्यपि प्रमाणं किं प्रत्यक्षम्, उतानुमानादि। यदि प्रत्यक्षम् । तदयुक्तम् । प्रत्यक्षस्याविचारकत्वेन पर्यनुयोगस्वरूपविचाररचनाऽचतुरत्वात् । नच प्रत्यक्षस्यापि प्रमाणत्वं युक्तम् । भवदभ्युपगमेन तल्लक्षणासंभवात् । तदसंभवश्व, स्वरूपव्यवस्थापकधर्मस्य लक्षणत्वात् । तत्र प्रत्यक्षस्य प्रामाण्यस्वरूपव्यवस्थापको धर्मोऽविसंवादित्वलक्षणोऽभ्युपगन्तव्यः। तच्चाविसंवादित्वं प्रत्यक्षप्रामाण्येनाविनाभूतमभ्युपगम्यम् । अन्यथाभूतात्ततः प्रत्यक्षप्रामाण्यासिद्धेः । सिद्धौ वा यतः कुतश्चिद्यत्किश्चिदनभिमतमपि सिधेदित्यतिप्र