________________
१२४
सम्मतिताख्यप्रकरणस्यमिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत्किमियमर्थापत्तिः, अथानुमान वा।न तावदर्थापत्तिः। तल्लक्षणाभावात् । “दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते” इति हि तस्या लक्षणं विचक्षणैरिष्यते, न तु जन्मान्तरमन्तरेण नोपपत्तिमदिदं जन्मेति सिद्धम् । मातापितृसामग्रीमात्रकेण तस्योपपत्तेस्तन्मात्रहेतुकत्वे चान्यपरिकल्पनायामतिप्रसङ्गात् । अथ प्रज्ञामेधादयो जन्मादावभ्यासपूर्वका दृष्टाः कथमतपूर्वका भवेयुः; न वह्निपूर्वको धूमः, तत्पूर्वकतामन्तरेण कदाचिदपि भवन्नुपलब्धः । तदप्यसत्। अविनाभावसंबन्धस्य देशकालव्याप्तिलक्षणस्य प्रत्यक्षेण प्रतिपत्तुमशक्तेः। सन्निहितमात्रप्रतिपत्तिनिमित्तं हि प्रत्यक्षमुपलभ्यते; नहि सकलदेशकालयोविना वह्निमसंभव एव धूमस्येति प्रत्यक्षतः प्रतीतिर्युक्ता, अतोन धूमोऽपि वह्निपूर्वकः सर्वत्र प्रत्यक्षानुपलम्भाभ्यां सिद्ध इति कुतस्तेन दृष्टान्तेन जन्मा. न्तरस्वरूपपरलोकसाधनम् । तस्मात्केचित् प्रज्ञामेधादयस्तथाभूताभ्यासपूर्वकाः, केचिन्मातापितृशरीरपूर्वका इति। नच प्रज्ञादयः शरीरतो व्यतिरिच्यमानखभावाः संवेदनविषयतामुपयान्ति । शरीरं च तदन्वयव्यतिरेकानुवृत्तिमदेव दृष्टमिति कथमन्यथा व्यवस्थामर्हति । अथ पूर्वोपात्तादृष्टमन्तरेण कथं मातापितृविलक्षणं शरीरं, न त्वेतेनैव व्यभिचारो दृश्यते। नहि सर्वदा कारणानुरूपमेव कार्यम् । तेन विलक्षणादपि मातापितृशरीराद्यदि प्रज्ञामेधादिभिर्विलक्षणं तदपत्यस्य शरीरमुपजायेत, कदाचित् तदाकारानुकारि तत्कथं वाऽत्र विरोधः। यथा कश्चित् शालूकादेव शालूकः, कश्चिद् गोमयात् ; तथा कश्चिदुपदेशाद्विकल्पः, कश्चित् तदाकारपदार्थदर्शनात् । अथ दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवेत्, तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेति एतदपि प्रष्टव्यम्। तस्मात्कार्यकारणभावमात्रमेव तत् । तत्र च नियमाभावादविज्ञानादपि मातापितृशरीराद्विज्ञानमुपजायताम् । अथवा यथा विकल्पायवहितादपि विकल्प उपजायते, तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः । यथा चैकमातापितृशरीरादनेकापत्योत्पत्तिस्तथैकस्मादेव ब्रह्मणः प्रजोत्पत्तिरिति न जात्यन्तरपरिग्रहः कस्यचिदितिन परलोकसिद्धिः। नहि मातापितृसंबन्धमात्रमेव परलोकः। तथेष्टावभ्युपगमविरोधात् । अथानाधनन्त आत्माऽस्ति, तमाश्रित्य परलोकः साध्यते। नो