________________
तत्त्वबोधविधायिनी व्याख्या।
१२३ तिसूत्रम्-“अनुमानमप्रमाणम्” इति । अनेन प्रतिज्ञाप्रतिपादनं कृतम् । अनिश्चितार्थप्रतिपादकत्वात,असिद्धप्रमाणाभासवदिति हेतुदृष्टान्तावभ्यूह्यौ। विषयविचारेण वाऽनुमानप्रामाण्यमयुक्तम्। धर्मधर्म्युभयवतन्त्रसाधने सिद्धसाध्यता यतः। मतो विशेषणविशेष्यभावः साद्यः प्रमेयविशेषविषयां प्रमांकुर्वत् प्रमाणं प्रमाणता. मश्नुते। इतरेतरावच्छिन्नश्च समुदायोऽत्र प्रमेयः; तदपेक्षया च पक्षधर्मवादीनामन्यतमस्यापि रूपस्याप्रसिद्धिः। नहि समुदायधर्मता हेतोः। नापि समुदायेनान्वयो व्यतिरेको वा, धर्मिमात्रापेक्षया पक्षधर्मले साध्यधर्मापेक्षया च व्याप्तौ गौणतेति । उक्तं च। “प्रमाणस्यागौणत्वादनुमानादर्थनिश्चयो दुर्लभः' इति; धर्मिधर्मताग्रहणेऽपि न गौणतापरिहारः। प्रतीयमानापेक्षया गौणमुख्यव्यवहारस्य चिन्त्यत्वात् ; समुदायश्च प्रतीयते । एकदेशाश्रयणेनापि त्रैरूप्यमयुक्तम् । व्याप्स्यसिद्धेः । नहि सत्तामात्रेणाविनाभावो गमकः; अपि त्ववगतः। अन्यथाऽतिप्रसङ्गात् । स च सकलसपक्षविपक्षाप्रत्यक्षीकरणे दुर्विज्ञानोऽसर्वविदा । नचात्र भूयोदर्शनं शरणम्। सहस्रशोऽपि दृष्टसाहचर्यस्य व्यभिचारात्। अतएव दर्शनादर्शनमपि।
तदुक्तम् :
“गोमानित्येव मर्येन भाव्यमश्ववताऽपि किम् ?" इति ॥ देशकालावस्थाभेदेन च भावानां नानात्वावगमादनाश्वासः । तदुक्तम्"अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रतीतिरतिदुर्लभा" ॥ १ ॥ इत्यादि । आह च।अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात् । यच्च सामान्यस्य तद्विषयस्याभावात् स्वार्थपरार्थभेदासंभवाद् , विरुद्धानुमानविरोधयोः सर्वत्र संभवात् ; क्वचिच्च विरुद्धाव्यभिचारिण इत्यादि दूषणजालम्। तदनुद्घोषणीयमेव। यतोऽनिश्चितार्थप्रतिपादकत्वादनुमानमप्रमाणमित्यनुमानाप्रमाणताप्रतिपादने कृते शेषदूषणजालस्य मृतमारणकल्पत्वात्। ततोऽनुमानस्याप्रमाणत्वादतीन्द्रियपरलोकसहाषप्रतिपादने कुतस्तस्य प्रवृत्तिः। अथेदमेव जन्म पूर्वजन्मान्तरमन्तरेण न युक्त