________________
१२२
सम्मतितकाख्यप्रकरणस्यश्वरस्याभावः। नारकतिर्यङ्नरामररूपपरिणतिखभाक्तया उत्पद्यन्ते प्राणिनोऽस्मिनित्येतच्चायुक्तमभिहितम् । परलोकसदावे प्रमाणाभावात्। तथाहि । परलोकसद्भावावेदकं प्रमाणं प्रत्यक्षम्, अनुमानम्,आगमो वा जैनेनाभ्युपगमनीयः। अन्यस्य प्रमाणत्वेन तेनानिष्टेः। नचात्रैतद्वक्तव्यम् । भवतोऽपि किं तत् प्रतिक्षेपकं प्रमाणम् । यतो नास्माभिस्तत्प्रतिक्षेपकप्रमाणात् तदभावः प्रतिपाद्यते, किन्तु परोपन्यस्तप्रमाणपर्यनुयोगमात्रमेव क्रियते। अतएव “सर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेः" इति चार्वाकैरभिहितम्। स च परोपन्यस्तप्रमाणपर्यनुयोगः;तदभ्युपगमस्य प्रश्नादिद्वारेण विचारणा, न पुनःस्वसिद्धप्रमाणोपन्यासः। येनातीन्द्रियार्थप्रतिक्षेपकत्वेन प्रवर्त्तमानं प्रमाणमाश्रयासिद्धत्वादिदोषदुष्टलेन कथं प्रवर्त्तत इत्यस्मान् प्रति भवताऽपि पर्यनुयोगः क्रियेत । अतएव परलोकप्रसाधकप्रमाणाभ्युपगमं परेण ग्राहयित्वा तदभ्युपगमस्यानेन प्रकारेण विचारः क्रियते । तत्र न तावत् परलोकप्रतिपादकत्वेन चक्षुरादिकरणव्यापारसमासादितात्मलाभं सन्निहितप्रतिनियतरूपादिविषयत्वात् प्रत्यक्षं प्रवर्तते । नाप्यतीन्द्रियं योगिप्रत्यक्षं तत्र प्रवर्तत इति वक्तुं शक्यम् । परलोकादिवत्तस्याप्यसिद्धेः । नाप्यनुमानं प्रत्यक्षपूर्वकं तत्र प्रवृत्तिमासादयति । प्रत्यक्षाप्रवृत्तौ तत्पूर्वकस्यानुमानस्यापि तत्राप्रवृत्तेः । अथ यद्यपि प्रत्यक्षावगतप्रतिबन्धलिङ्गप्रभवमनुमानं न तत्र प्रवर्त्तते, तथापि सामान्यतो दृष्टं तत्र प्रवर्तिष्यते। तदपि न युक्तम् । यतस्तदपि सामान्यतो दृष्टमवगतप्रतिबन्धलिङ्गोद्भवम्, आहोस्वित् अनवगतप्रतिबन्धलिङ्गसमुत्थम् । यद्यनवगतप्रतिबन्धलिङ्गोद्भवमिति पक्षः। स न युक्तः । तथाभूतलिङ्गप्रभवस्य स्वविषयव्यभिचारिणश्च दर्शनानन्तरोतराज्यावाप्तिविकल्पस्येवाप्रमाणत्वात् । अथ प्रतिपन्नसंबन्धलिङ्गप्रभवं तत् तत्र प्रवर्त्तत इति पक्षः । सोऽपि न युक्तः । प्रतिबन्धावगमस्यैव तत्र लिङ्गस्यासंभवात् । तथाहि । प्रत्यक्षस्य तत्र लिङ्गसंबन्धावगमनिमित्तस्याभावेऽनुमानं लिङ्गसंबन्धग्राहकमभ्युपगन्तव्यम् । तत्र यदि तदेव परलोकसद्भावावेदकमनुमानं स्वविषयाभिमतेनार्थेनात्मोत्पादकलिङ्गसंबन्धग्राहकम्, तदेतरेतराश्रयत्वदोषः। अथानुमानान्तराद् गृहीतप्रतिबन्धाल्लिङ्गादुपजायमानं तद्विषयं तदभ्युपगम्यते, तदाऽनवस्था; तथा सर्वमप्यनुमानमस्मान्प्रत्यसिद्धम् । तथाहि । बृहस्प