________________
तत्त्वबोधविधायिनी व्याख्या । अत्रेश्वरकृतजगद्दादिनः प्राहुः । युक्तमुक्तं सर्वज्ञप्रणीतं शासनं, तत्प्रणीतलाच्च तत्प्रमाणमिति । इदं त्वयुक्तम् । रागद्वेषादिकान् शत्रून् जितवन्त इति जिनाः।सामान्ययोगिन एवेश्वरव्यतिरिक्ता एतल्लक्षणयोगिनो, न पुनः शासनादिसर्वजगत्स्रष्टा ईश्वरः। तथाच पतञ्जलिः। "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति । अनेन सूत्रेण रागादिलक्षणक्लेशशत्रुरहितवं सहजमीश्वरस्य प्रतिपादितं, न पुनर्विपक्षभावनाद्यभ्यासव्यापारात् क्लेशादिक्षयस्तस्य, येन रागादीन् खव्यापारेण जितवन्त इति वचः सार्थकं तद्विषयत्वेन स्यात् ।
तथा चान्यैरप्युक्तम्"ज्ञानमप्रतिघं यस्य ऐश्वर्य च जगत्पतेः।
वैराग्यं चैव धर्मश्च सह सिद्ध चतुष्टयम्" ॥१॥ इत्याशङ्क्याह। “भवजिणाणम्"इति। भवन्ति नारकतिर्यग्नरामरपर्यायवेनोत्पद्यन्ते प्राणिनोऽस्मिन्निति भवः संसारः; तहेतुवाद् रागादयोऽत्र भवशब्देनोपचाराद्विवक्षिताः; तं जितवन्त इति जिनाः। उपचाराश्रयणे च प्रयोजनं,नह्यविकलकारणे रागादौ अध्वस्ते, तत्कार्यस्य संसारस्य जयः शक्यो विधातुमिति प्रतिपादनम्। भवकारणभूतरागादिजये चोपायः प्रतिपादितः प्राक् । तदुपायेन च विपक्षरागादिजयद्वारेण तत्कार्यभूतस्य भवस्य जयः संभवति, नान्यथेति । नापायव्यतिरेकेणोपेयसिद्धिः। अन्यथोपेयस्य निर्हेतुकत्वेन देशकालस्वभावप्रतिनियमो न स्यादिति सर्वप्राणिनामीश्वरत्वम् ; नवा कस्यचित्स्यात् । । प्रतिपादितश्चायमर्थः
“नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसंभवः” ॥ १ ॥ इत्यादिना ग्रन्थेन धर्मकीर्तिना ॥ तन्न रागादिक्लेशविगमः स्वभावतएवेश्वरस्येति युक्तम् ॥ अत्र बृहस्पतिमतानुसारिणः स्वभावसंसिद्धज्ञानादिधर्मकलापाध्यासितस्य स्थाणोरभावप्रतिपादनं जैनेन कुर्वताऽस्माकं साहाय्यमनुष्ठितमिति मन्वानाः प्राहुः। युक्तमुक्तं यत् स्वभावसंसिद्धज्ञानादिसंपत्समन्वितस्ये
१६