________________
१२०
सम्मतिताख्यप्रकरणस्यइत्थाणम्" इति । अस्यायमभिप्रायः। प्रत्यक्षानुमानादिप्रमाणविषयत्वेन प्रतिपादिताः शासनेन ये ते तद्विषयत्वेनैव तैर्निश्चिता इति सिद्धास्ते चार्यन्त इत्यर्था उच्यन्ते, तेषां शासनं प्रतिपादकमर्हत्सर्वज्ञशासनमेव, न बुद्धादिशासनम् । अतो वचनविशेषत्वलक्षणस्य हेतोस्तेष्वसिद्धत्वात् कुतस्तेषामपि सर्वज्ञत्वम् येन विशेष. सर्वज्ञत्वसिद्धिर्न स्यात्। यथा चागमान्तरेण प्रत्यक्षादिविषयत्वेन प्रतिपादितानामर्थानां तद्विषयत्वं न संभवति, तथाऽत्रैव यथास्थानं प्रतिपादयिष्यते । अथवा सिद्धार्थानामित्यनेन हेतुसंसूचनं विहितमाचार्येण । सिद्धाः प्रमाणान्तरसंवादतो निश्चिता येऽर्था नष्टमुष्टयादयस्तेषां शासनं प्रतिपादकम् ; यतो द्वादशाङ्गं प्रवचनमतो जिनानां कार्यत्वेन संबन्धि; तेनायं प्रयोगार्थः सूचितः। प्रयोगश्च प्रमाणान्तरसंवादियथोक्तनष्टमुष्टयादिसूक्ष्मान्तरितदूरार्थप्रतिपादकत्वान्यथाऽनुपपत्तेर्जिनप्रणीतं शासनम् । अत्र च सूक्ष्माद्यर्थप्रतिपादकत्वान्यथाऽनुपपत्तिलक्षणस्य हेतोर्जिनप्रणीतत्वलक्षणेन स्वसाध्येन व्याप्तिः साध्यधर्मिण्येव निश्चितेति तन्निश्चायकप्रमाणविषयस्येह दृष्टान्तस्य प्रदर्शनमाचार्येण न विहितम्।तदर्थस्य तयतिरेकेणैव सिद्धत्वात्। यथा चार्थापत्तेः साध्यधर्मिण्येव व्याप्तिनिश्चयाद् दृष्टान्तव्यतिरेकेणापि तदुत्थापकादर्थादुपजायमानायाः सर्वज्ञप्रतिक्षेपवादिभिर्मीमांसकैः प्रामाण्यमभ्युगम्यते, तथा प्रकृतादन्यथाऽनुपपत्तिलक्षणाडेतोरुपजायमानस्यास्यानुमानस्य तत् किं नेष्यते। प्रतिपादितश्वार्थापत्तेरनुमानेऽन्तर्भावःप्रागितिभवत्यतो हेतोःप्रकृतसाध्यसिद्धिः। अतएव पूर्वाचार्हेतुलक्षणप्रणेतृभिरेकलक्षणो हेतुः
"अन्यथाऽनुपपन्नत्वं यत्र, तत्र त्रयेण किम् । __ नान्यथाऽनुपपन्नत्वं यत्र, तत्र त्रयेण किम्" ॥१॥ इत्यादिवचनसंदर्भेण प्रतिपादित इति मन्वानेनाचार्येणापि न दृष्टान्तसूचनं वि. हितम् । अत्र प्रयोगे कुसमयविशासनमिति चात्र व्याख्याने बुद्धादिशासनानामसर्वज्ञप्रणीतत्वप्रतिपादकत्वेन व्याख्येयम् । तथाहि । कुत्सिताः प्रमाणबाधितैकान्तस्वरूपार्थप्रतिपादकत्वेन समयाः कपिलादिप्रणीतसिद्धान्तास्तेषां "सन्ति पञ्चमहन्भूया."इत्यादिवचनसंदर्भेण दृष्टेष्टविषये विरोधाधुझावकत्वेन विशासनं विध्वंसकं यतोऽतो द्वादशाङ्गमेव जिनानां शासनमिति भवत्यतो विशेषणात् सर्वज्ञविशेषसिडिरिति स्थितमेतजिनशासनं हादशाङ्गम् तत्त्वादेव सिद्ध निश्चितप्रामाण्यमिति॥