________________
तत्त्वबोधविधायिनी व्याख्या। चित् साध्यमिण्येव प्रवृत्तं तां तस्य साधयति; कदाचित् दृष्टान्तर्मिणि । यत्र हि सर्वमनेकान्तात्मकं सत्त्वादित्यादौ प्रयोगे न दृष्टान्तधर्मिसद्भावः, तत्र व्याप्तिप्रसाधकं प्रमाणं प्रवर्त्तमानं साध्यर्मिण्येव सर्वोपसंहारेण हेतोः स्वसाध्यव्याप्तिं प्रसाधयति । यत्र तु प्रकृतप्रयोगादौ दृष्टान्तर्मिणोऽपि सत्त्वं तत्र दृष्टान्तधर्मिण्यपि प्रवृत्तं तत्प्रमाणं सर्वोपसंहारेणैव तस्याः प्रसाधकमभ्युपगन्तव्यम् । अन्यथा दृष्टान्तर्मिणि हेतोः खसाध्यव्याप्तावपि साध्यधर्मिणि तस्य तदव्याप्तौ न ततस्तत्र तत्प्रतिपत्तिः स्यात् । दृष्टान्तर्मिण्येव तेन तस्य व्याप्तत्वात् ; बहिर्व्याप्तेविद्यमानाया अपि साध्यधर्मिणि साध्यप्रतिपत्तावनुपयोगात् सादृश्यमात्रस्याकिञ्चित्करत्वात्। अन्यथा शुक्लं सुवर्ण सत्त्वाद्रजतवदित्यत्रापि शुक्लत्वप्रतिपत्तिः स्यात् । अथात्र पक्षस्य प्रत्यक्षबाधनं, प्रत्यक्षबाधितधर्मनिर्देशानन्तरप्रयुक्तत्वेन हेतोः कालात्ययापदिष्टत्वं वा दोषः। तदयुक्तम् । बाधाऽविनाभावयोर्विरोधात् । तथाहि । सत्येव साध्यधर्मिणि साध्ये हेतुर्वर्त्तत इति तस्य तदविनाभावः, तत्प्रतिपादितसाध्यधर्माभावश्च प्रमाणतो बाधा।साध्यधर्मभावाभावयोश्चैकत्र धर्मिण्येकदा विरोध इति नैतदोषादस्य साधनस्य दुष्टत्वम्, किन्तु साध्यमिणि साध्यधर्माविनाभूतत्वेनानिश्चयः। स च बहिर्व्याप्तिमात्रेण हेतोः साध्यसाधकत्वाभ्युपगमेऽन्यत्रापि समान इति नानुमानात् कचिदपि साध्यनिश्चयः स्यात् । अतो दृष्टान्तधर्मिणि प्रवृत्तेन प्रमाणेन व्याप्त्या हेतोः स्वसाध्याविनाभावो निश्चयः। सच निश्चिताविनाभावो यत्र धर्मिण्युपलभ्यते तत्र स्वसाध्यमविद्यमानप्रमाणान्तरबाधनं निश्चाययति; यथाऽत्रैव सर्वज्ञलक्षणे साध्ये वचनविशेषलक्षणे साध्यधर्मिणि तद्विशेषलक्षणो हेतुः । प्रतिबन्धप्रसाधकं चास्य हेतोः प्रागेव दृष्टान्तधर्मिणि प्रमाणं प्रदर्शितमित्यभिप्रायवतैवाचार्येणापि 'कुसमयविसासणम्' इति सूत्रे कुरित्यनेन दृष्टान्तसूचनं विहितम्, नच पक्षवचनाद्युपक्षेपः सूचितः । ननु भवत्वस्माद्धेतोर्यथोक्तप्रकारेण सर्वज्ञमात्रसिद्धिर्न पुनस्तद्विशेषसिद्धिः। तथाहि । यथा नष्टमुष्टयादिविषयवचनविशेषस्याहत्सर्वज्ञप्रणीतत्वं वचनविशेषत्वात् सिद्ध्यति, तथा बुद्धादिसर्वज्ञपूर्वकत्वमपि तत एव सेत्स्यतीति कुतस्तद्विशेषसिद्धिः। नच नष्टमुष्टयादिप्रतिपादको वचनविशेषोऽर्हच्छासन
दिलवशवकत्वमापत एवेति वक्तुं युक्तम् । बुद्धशासनादिष्वपि तस्योपलम्भादित्याशङ्क्याह सूरिः। "सि