Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 126
________________ १२६ सम्मतिताख्यप्रकरणस्यसङ्ग।स चाविनाभावस्तस्य कुतश्चित्प्रमाणादवगन्तव्यः। अनवगतप्रतिबन्धाद र्थान्तरप्रतिपत्तौ नालिकेरद्वीपवासिनोऽप्यनवगतप्रतिबन्धाद् धूमात्,धूमध्वजप्रतिपत्तिः स्यात् । अविनाभावावगमश्चाखिलदेशकालव्याप्त्या प्रमाणतोऽभ्युपगमनीयः। अन्यथा यस्यामेव प्रत्यक्षव्यक्तौ संवादित्वप्रामाण्ययोरसाववगतस्तस्यामेवाविसंवादित्वात्तत्सियेत्, न व्यक्त्यन्तरे । तत्र तस्यानवगमात् । नचाक्गतलक्ष्यलक्षणसंबन्धा व्यक्तिर्देशकालान्तरमनुवर्तते । तस्याः प्रत्यक्षव्यक्तेस्तदैव ध्वंसात् ; व्यक्त्यन्तराननुगमात्।अनुगमे घाव्यक्तिरूपताविरहानुगतस्य सामान्यरूपत्वात् , तस्य च भवताऽनभ्युपगमात् । अम्युपगमे वा न सामान्यलक्षणानुमानविषयाभावप्रतिपादनेन तत्प्रतिक्षेपो युक्तः। सच प्रमाणतः प्रत्यक्ष लक्ष्यलक्षणयोर्व्याप्त्याविनाभावावगमो यदि प्रत्यक्षादभ्युपगम्यते। तदयुक्तम् । प्रत्यक्षस्य सन्निहितस्वविषयप्रतिभासमात्र एव भवता व्यापाराभ्युपगमात्। अथैकत्र व्यक्तौ प्रत्यक्षेण तयोरविसंवादित्वप्रामाण्ययोरविनाभावावगमादन्यत्राप्येवंभूतं प्रत्यक्षं प्रमाणमिति प्रत्यक्षेणापि लक्ष्यलक्षणयोर्व्याप्त्या प्रतिबन्धावगमः, तर्धन्यत्राऽप्येवंभूतं ज्ञानलक्षणं कार्यमेवंभूतज्ञानकार्यप्रभवमिति तेनैव कथं न सर्वोपसंहारेण कार्यलक्षणहेतोः स्वसाध्याविनाभावावगमः। येनानुमानमप्रमाणमविनामावसंबन्धस्य व्याप्त्या ग्रहीतुमशक्यत्वादिति दूषणमनुमानवादिनं प्रति भवता सज्यमानं शोभते । किं च। अविसंवादिवलक्षणो धर्मः प्रत्यक्षप्रामाण्यलक्ष्यव्यवस्थापकः प्रत्यक्षप्रतिबद्धत्वेन निश्चयः। अन्यथा तत्रैव ततः प्रामाण्यलक्षणलक्ष्यव्यवस्था न स्यात्। असंबद्धस्थ केनचित्सह प्रत्यासत्तिविप्रकर्षाभावात्, तदन्यत्रापि ततस्तव्यवस्थाप्रसङ्गः । तथाऽभ्युपगमे च यथा संवादित्वलक्षणो धर्मो लक्ष्यानवगमेऽपि प्रत्यक्षधर्मिसंबन्धि वेनावगम्यते, तथा धूमोऽपि पर्वतैकदेशे अनलानवगतावपि प्रदेशसंबन्धितयाऽवगम्यत इति कथं समुदायः साध्यः, तदपेक्षया च पक्षधर्मलं हेतोरवगन्तव्यम् । नच पक्षधर्मवाप्रतिपत्तौ साध्यधर्मानलविशिष्टतत्प्रदेशप्रतिपत्तिः। प्रतिपत्तौ वा पक्षधर्मवाद्यनुसरणं व्यर्थम्। तत्प्रतिपत्तेः प्रागेव तदुत्पत्तेः। समुदायस्य साध्यलेनोपचारात्तदेकदेशर्मिधर्मवावगमेऽपि पक्षधर्मवावगमाददोषे उपचरितं पक्षधर्मलं हेतोः स्यादिति अनुमानस्य गौणखापत्तेः प्रमाणस्यागौणत्वादनु

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200