Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 125
________________ तत्त्वबोधविधायिनी व्याख्या। १२५ कानुभवितव्यतिरेकेणानुसन्धानं संभवति। भिन्नानुभवितर्यनुसन्धानादृष्टेः। तदयुक्तम् । परलोकिनोऽभावात्, परलोकाभाव इति वचनात् । नानाद्यनन्त आत्मा प्रत्यक्षप्रमाणप्रसिद्धः; अनुमानेन चेतरेतराश्रयदोषप्रसङ्गः । सिद्धे आत्मन्येकरूपेणानुसन्धानविकल्पस्याविनाभूतत्वे आत्मसिद्धिस्तत्सिद्धेश्वानुसन्धानस्य तदविनाभूतत्वसिद्धिरितीतरेतराश्रयसद्भावान्नैकस्यापि सिद्धिः; नचासिद्धमसिद्धेन साध्यते। किंच । दर्शनानुसन्धानयोः पूर्वापरभाविनोः कार्यकारणभावः प्रत्यक्षसिद्धस्तत्कुतोऽनुसन्धानस्मरणादात्मसिद्धिः । अपि च । शरीरान्तर्गतस्य ज्ञानस्यामूर्तबेन कथं जन्मान्तरशरीरसंचारः। अथान्तराभवशरीरसन्तत्या संचरणमुच्यते; तदपि परलोकान्न विशिष्यते। संचारश्च न दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगममेतन्न परलोकसिद्धिः । अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसं. बन्धासिद्धेय॑र्थमेवानुमानेन परलोकास्तित्वसाधनम्। अथागमात्प्रतिनियतकर्मफलसंबन्धसिद्धिः । तथा सति परलोकास्तित्वमप्यागमादेव सिद्धमिति किमनुमानप्रयासेन।नचागमादपि परलोकसिद्धिः। तस्य प्रामाण्यासिद्धेः। नचाप्रमाणसिद्ध परलोकादिकमभ्युपगन्तुं युक्तम् । तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । तन्न परलोकसाधकप्रमाणप्रतिपादनमकृत्वा भवशब्दव्युत्पत्तिरर्थसंस्पर्शिन्यभिधातुं युक्ता। डित्थादिशब्दव्युत्पत्तितुल्या तु यदि क्रियेत, तदा नास्माभिरपि तत्प्रतिपादकप्रमाणपर्यनुयोगे मनः प्रणिधीयत इति पूर्वपक्षः॥ ॥ अत्रोच्यते ॥ यदुक्तम् ; पर्यनुयोगमात्रमस्माभिः क्रियत इति। तत्र वक्तव्यम् । पर्यनुयोगोऽपि क्रियमाणः किं प्रमाणतः क्रियते, उताप्रमाणतः । यदि प्रमाणतः । तदयुक्तम् । यतस्तत्कार्यपि प्रमाणं किं प्रत्यक्षम्, उतानुमानादि। यदि प्रत्यक्षम् । तदयुक्तम् । प्रत्यक्षस्याविचारकत्वेन पर्यनुयोगस्वरूपविचाररचनाऽचतुरत्वात् । नच प्रत्यक्षस्यापि प्रमाणत्वं युक्तम् । भवदभ्युपगमेन तल्लक्षणासंभवात् । तदसंभवश्व, स्वरूपव्यवस्थापकधर्मस्य लक्षणत्वात् । तत्र प्रत्यक्षस्य प्रामाण्यस्वरूपव्यवस्थापको धर्मोऽविसंवादित्वलक्षणोऽभ्युपगन्तव्यः। तच्चाविसंवादित्वं प्रत्यक्षप्रामाण्येनाविनाभूतमभ्युपगम्यम् । अन्यथाभूतात्ततः प्रत्यक्षप्रामाण्यासिद्धेः । सिद्धौ वा यतः कुतश्चिद्यत्किश्चिदनभिमतमपि सिधेदित्यतिप्र

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200