Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown
View full book text
________________
सम्मतिताख्यप्रकरणस्यधर्मेण पावकेन व्याप्तस्य धूमलक्षणस्य हेतोरसिद्धत्वात् विरुडो हेतुः स्यात्, साध्यविकलश्च दृष्टान्तः। अथ दृष्टान्तर्मिधर्मः साध्यधर्मिणि साध्यते, तदा प्रत्यक्षादिविरोधः । अथोभयगतं वह्निसामान्यं, तदा सिद्धसाध्यतादोषः । तथा प्रमेयत्वमपि हेतुत्वेनोपन्यस्यमानमित्यादि यदुक्तम्; तद् धूमत्वलक्षणेऽपि हेतौ समानम्।तथाहि। अत्रापि किं साध्यधर्मिधर्मों हेतुत्वेनोपात्तः, उत दृष्टान्तधर्मिधर्मः, अथोभयगतं सामान्यम् । तत्र यदि साध्यधर्मिधर्मो हेतुः स दृष्टान्तधर्मिणि नान्वेतीत्यनन्वयो हेतुदोषः । अथ दृष्टान्तधर्मिधर्मः स साध्यमिण्यसिद्ध इत्यसिद्धताहेतुदोषः । अथोभयगतं सामान्यं, तदपि प्रत्यक्षाप्रत्यक्षमहानसपर्वतप्रदेशविलक्षणव्यक्तिद्वयाश्रितं न संभवतीति हेतोरसिद्धता तदवस्थिता । अथ पर्वतप्रदेशाश्रितामितमव्यक्तरुत्तरकालभाविप्रत्यक्षप्रतीयमानत्वेन न महानसोपलब्धधूमव्यत्याऽत्यन्तवैलक्षण्यमिति नोभयगतसामान्याभावः। ननुभयगतसामान्यप्रतिपत्तौ ततोऽनुमानप्रवृत्तिस्तत्प्रवृत्तौ च तदर्थक्रियार्थिनस्तत्र प्रवर्तमानस्य प्रत्यक्षप्रवृत्तिस्तस्यां च सत्यामत्यन्तवैलक्षण्याभावस्तद्यक्तेः, तत्सद्भावे चोभयगतसामान्यसिद्धितस्तदनुमानप्रवृत्तिरिति चक्रकदूषणावकाशः । अथ कण्ठक्षीणतादिलक्षणधर्मकलापसाधान्न महानसपर्वतप्रदेशसङ्गतधूमव्यत्योरत्यन्तवैलक्षण्यमित्युभयगतसामान्यसिद्धौ न धूमानुमाने हेलसिद्धतादिदोषः, तर्हि वाच्याविसंवादादिधर्मकलापसाधर्म्यस्य वचनविशेषव्यक्तिद्वयेऽप्यत्यन्तवैलक्षण्यनिवर्त्तकस्य सद्भावेन कथं न तद्विशेषत्वसामान्यसंभवः । प्रमेयत्वं तु यथा प्रकृतसाध्ये हेतुर्भवति तथा प्रतिपादयिष्याम आस्तां तावत्॥ यत्तु नापि शब्दात्तत्सिद्धिरित्यादि प्रतिपादितम्। तत्सिद्धसाध्यतादोषाघातबान्निरस्तम्।यदप्युक्तम्।ये देशकालेत्यादिप्रयोगे नासिद्धो हेतुरिति। एतदप्ययुक्तम्। अनुमानस्य तदुपलम्भखभावस्य प्रतिपादयिष्यमाणत्वेनानुपलम्भलक्षणस्य हेतोः परप्रयुक्तस्यासिद्धत्वात् । अत एव सद्यवहारनिषेधश्चानुपलम्भनिमित्तोऽनेनेत्याद्यसारतया स्थितम् । अथ यथाऽस्माकं तत्सद्भावावेदकं प्रमाणं नास्ति, तथा भवतां तदभावावेदकमपि नास्तीत्यादि यावत्प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितमिति, यदुक्तम्। तदप्यचारु । यतः 'सर्वज्ञो दृश्यते तावन्नेदानीम्' इत्यादिना तत्सद्भावोपलम्भकप्रमाणपञ्चकनिवृ.

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200