Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 116
________________ सम्मतिताख्यप्रकरणस्ययन्ति; अन्ये विपर्यस्तबुद्धयः सम्यगुपदिष्टमप्यन्यथाऽवधारयन्ति; केचित् पुनः सम्यक्परिज्ञातमपि विस्मरन्तीत्येवमादिभिः कारणैः प्रतिपुरुष हीयमानस्य, एतावन्तं कालं यावदागमनमेव न स्याच्चिरोच्छिन्नत्वे नागच्छति च । तस्मादन्तराऽन्तरा वि. च्छिन्नः सूक्ष्मादिपदार्थसाक्षात्कारिज्ञानवता केनचिदभिव्यक्त इयन्तं कालं यावदागच्छतीत्यभ्युपगमनीयमिति नानुपदेशपूर्वकत्वविशेषणासिद्धिः। नाप्यन्वयव्यतिरेकाभ्यां नष्टमुष्ट्यादिकं ज्ञात्वा तद्विषयवचनविशेषप्रवर्त्तनं कस्यचित् संभवति, येनानन्वयव्यतिरेकपूर्वकत्वविशेषणासिद्धिः स्यात् । यतो नान्वयव्यतिरेकाभ्यां प्रहोपरागौषधशक्त्यादयो ज्ञातुं शक्यन्ते। प्रावृट्समये शिलीन्ध्रोद्भेदवत् ग्रहोपरा. गादीनां दिक्प्रमाणफलकालादिषु नियमाभावात्।द्रव्यशक्तिपरिज्ञानाभ्युपगमेऽन्व. यव्यतिरेकाभ्यां यावन्ति जगति द्रव्याणि तान्यकत्र मीलयित्वा एकस्य रसकल्कादिभेदेन, कर्षादिमात्राभेदेन, बालमध्यमाद्यवस्थाभेदेन, मूलपत्राद्यवयवभेदेन,प्रक्षेपोद्धाराभ्यामेकोऽपि योगो युगसहस्रेणापि न ज्ञातुं पार्यते, किमुतानेक इति कुतस्ताभ्यामौषधशक्तयवगमः। तेन नानन्वयव्यतिरेकपूर्वकत्वविशेषणस्यासिद्धिः । नापि नष्टमुष्ट्यादिविषयवचनविशेषस्यापौरुषेयत्वात् विशिष्टज्ञानपूर्वकत्वस्यासिहेरसिद्धः प्रकृतो हेतुः । अपौरुषेयस्य वचनस्य पूर्वमेव निषिद्धत्वात्। नाप्यसाक्षात्कारिज्ञानपूर्वकत्वेऽपि प्रकृतवचनविशेषस्य संभवादनैकान्तिकः।सविशेषणस्य हेतोर्विपक्षे सत्त्वस्य प्रतिषिद्धत्वात् । अत एव न विरुद्धः । विपक्ष एव वर्तमानो विरुद्धः । नचास्य पूर्वोक्तप्रकारेणावगतखसाध्यप्रतिबन्धस्य विपक्षे वृत्तिसंभवः । अथ भवतु ग्रहोपरागाभिधायकवचनस्य तत्पूर्वकत्वसिद्धिः, अतो हेतोः। तत्र तस्य संवादात् । धर्मादिपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिस्तु कथं, तत्र तस्य संवादाभावात् । न । तत्रापि तस्य संवादात् । तथाहि । ज्योतिःशास्त्रादेग्रहोपरागादिकं विशिष्टवर्णप्रमाणदिग्विभागादिविशिष्टं प्रतिपद्यमानः प्रतिनियतानां प्रतिनियतदेशवर्तिनां प्राणिनां प्रतिनियतकाले प्रतिनियतकर्मफलसंसूचकत्वेन प्रतिपद्यते । उक्तं च तत्र" नक्षत्रग्रहपञ्जरमहर्निशं लोककर्मविक्षिप्तम् । भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम्" ॥१॥

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200