Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 4
________________ सम्मतितकाख्यप्रकरणस्यस्वभावहेतुप्रभवमनुमानं तत्सम्बन्धव्यवहारमारचयति ॥ नापि कार्यहेतुसमुत्थम्, अक्षाश्रितगुणलिङ्गसम्बन्धग्राहकलेन तत् प्रभवति । कार्यहेतोः, सिद्धे कार्यकारणभावे, कारणप्रतिपत्तिहेतुलेनाभ्युपगमात्। कार्यकारणभावस्य च सिद्धिः, प्रत्यक्षानुपलम्भप्रमाणसम्पाद्या। न च लोचनादिगतगुणाश्रितलिङ्गसम्बन्धग्राहकत्वेन प्रत्यक्षप्रवृत्तिः, येन तत्कार्यत्वेन कस्यचिल्लिङ्गस्य प्रत्यक्षतःप्रतिपत्तिः स्यात् । तन्न कार्यहे. तोरपि प्रतिबन्धप्रतिपत्तिः ॥ अनुपलब्धेस्त्वेवंविधे विषये प्रवृत्तिरेव न सम्भवति; तस्या अभावसाधकत्वेन व्यापाराभ्युपगमात्। नचान्यल्लिङ्गमभ्युपगम्यत इत्युक्तम्॥ न च प्रत्यक्षानुमानव्यतिरिक्तं प्रमाणान्तरमिति नेन्द्रियगतगुणप्रतिपत्तिः। यन्न कचिदपि प्रमाणेन प्रतिभाति, न तत्सद्व्यवहारावतारि; यथा शशशृङ्गम्।न प्रतिभान्ति च क्वचिदपि प्रमाणेनातीन्द्रियेन्द्रियगुणा भवदभ्युपगता इति कुतस्तेषां विज्ञानोत्पादककारणव्यतिरिक्तानां प्रामाण्योत्पादकत्वम् ॥अथ कार्येण यथार्थोपलब्ध्यात्मकेन तेषामधिगमः। तदप्ययुक्तम् । यथार्थत्वायथार्थत्वे विहाय यदि कार्यस्य उपलब्ध्याख्यस्वरूपं निश्चितं भवेत्तदा यथार्थत्वलक्षणः कार्यस्य विशेषः पूर्वस्मात्कारणकलापादनिष्पद्यमानो गुणाख्यं खोत्पत्तौ कारणान्तरं परिकल्पयति। यदा तु यथाथैवोपलब्धिः स्वोत्पादककारणकलापानुमापिका, तदा कथमुत्पादकव्यतिरेकिगुण. सद्भावः । अयथार्थत्वं तूपलब्धेः कार्यस्य विशेषः पूर्वस्मात्कारणसमुदायादनुपपधमानः स्वोत्पत्तौ सामग्यन्तरं कल्पयति; अत एव परतोऽप्रामाण्यमुच्यते । तस्योत्पत्तौ दोषापेक्षत्वात् । नचेन्द्रियनैर्मल्यादि गुणत्वेन वक्तुं शक्यम् । नैर्मल्यं हि तत्स्वरूपमेव, न पुनरौपाधिको गुणः। तथा व्यपदेशस्तु दोषाभावनिबन्धनः। तथाहि। कामलादिदोषासत्त्वान्निर्मलमिन्द्रियमुच्यते; तत्सत्त्वे सदोषम् । मनसोऽपि मिडाघभावः स्वरूपम् ; तत्सद्भावस्तु दोषः। विषयस्यापि निश्चलत्वादिस्वभावः; चलत्वादिकस्तु दोषः। प्रमातुरपि क्षुदाद्यभावः स्वरूपम्; तत्सद्भावस्तु दोषः । तदुक्तम् । 'इयती च सामग्री प्रमाणोत्पादिका' । तदुत्पद्यमानमपि प्रमाणं वोत्पादककारणव्यतिरिक्तगुणानपेक्षत्वात् खत उच्यते॥नाप्येतद्वक्तव्यम् । तज्जनकानां स्वरूपमयथार्थोपलब्ध्या समधिगतम् ; यथार्थत्वं तु पूर्वस्मात्कार्यावगतात्कारकखरूपादनिष्पद्यमानं किमिति गुणाख्यं सामग्यन्तरं न कल्पयति ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 200