Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 3
________________ तत्त्वबोधविधायिनी व्याख्या । अत्र यत्तावदुक्तम् । प्रामाण्यं विज्ञानोत्पादककारणव्यतिरिक्तगुणादिकारणसव्यपेक्षमुत्पत्तौ । तदसत्। तेषामसत्त्वात् । तदसत्त्वं च प्रमाणतोऽनुपलब्धेः। तथाहि। न तावत्प्रत्यक्षं चक्षुरादीन्द्रियगतान् गुणान् ग्रहीतुं समर्थम् । अतीन्द्रियत्वेनेन्द्रियाणां, तद्गुणानामपि प्रतिपत्तुमशक्तः । अथानुमानमिन्द्रियगुणान् प्रतिपद्यते । तदप्यसम्यक् । अनुमानस्य प्रतिबद्धलिङ्गनिश्चयबलेनोत्पत्त्यभ्युपगमात् । प्रतिबन्धश्च किं प्रत्यक्षेणेन्द्रियगतगुणैः सह गृह्यते लिङ्गस्य; आहोस्विदनुमानेनेति वक्तव्यम् । तत्र यदि प्रत्यक्षमिन्द्रियाश्रितगुणैः सह लिङ्गसम्बन्धग्राहकमभ्युपगम्यते । तदयुक्तम् । इन्द्रियगुणानामप्रत्यक्षवे तद्गतसम्बन्धस्याप्यप्रत्यक्षत्वात् । “द्विष्ठसम्बन्धसंवित्तिर्नैकरूपप्रवेदनात्” इति वचनात् । अथानुमानेन प्रकृतसम्बन्धःप्रतीयते। तदप्ययुक्तम् । यतस्तदप्यनुमानं किं गृहीतसम्बन्धलिङ्गप्रभवम्, उतागृहीतसम्बन्धलिङ्गसमुत्थम् । तत्र यद्यगृहीतसम्बन्धलिङ्गप्रभवं, तदा किं प्रमाणमुताप्रमाणम् । यद्यप्रमाणम् ;नातः सम्बन्धप्रतीतिः। अथ प्रमाणम् ; तदपि न प्रत्यक्षम्।अनुमानस्य बाह्यार्थविषयत्वेन प्रत्यक्षत्वानभ्युपगमात्; प्रत्यक्षपक्षोक्तदोषाच्च । किं तु अनुमानम्। तच्चानवगतसम्बन्धं न प्रवर्त्तत इत्यादि वक्तव्यम् । अथावगतसम्बन्धम् । तस्यापि सम्बन्धः किं तेनैवानुमानेन गृह्येत, उतान्येन । यदि तेनैव गृह्यत इत्यभ्युपगमः।स न युक्तः। इतरेतराश्रयदोषप्रसङ्गात्। तथाहि । गृहीतप्रतिबन्धं तत् स्वसाध्यप्रतिबन्धग्रहणाय प्रवर्त्तते, तत्प्रवृत्तौ च खोत्पादकप्रतिबन्धग्रह इत्यन्योऽन्यसंश्रयो व्यक्तः। अथान्येनानुमानेन प्रतिबन्धनहाभ्युपगमः । सोऽपि न युक्तः । अनवस्थाप्रसङ्गात्। तथाहि । तदप्यनुमानमनुमानप्रतिबन्धग्राहकमनुमानान्तराद्गृहीतप्रतिबन्धमुदयमासादयति तदप्यन्यतोऽनुमानाहीतप्रतिबन्धमित्यनवस्था । किं च। तदनुमानं स्वभावहेतुप्रभावितं,कार्यहेतुसमुत्थम्,अनुपलब्धिलिङ्गप्रभवं वा प्रतिबन्धग्राहकं स्यात् । अन्यस्य साध्यनिश्वायकत्वेन सौगतैरनभ्युपगमात्।तदुक्तम्। 'त्रिरूपाणि च त्रीण्येव लिङ्गानि; अनुपलब्धिः, स्वभावः, कार्य च' इति। त्रिरूपाल्लिङ्गाल्लिङ्गिविज्ञानमनुमानम्' इति च।तत्र खभावहेतुः प्रत्यक्षगृहीतेऽर्थे व्यवहारमात्रप्रवर्त्तनफल:; यथा शिंशिपात्वादिवृक्षादिव्यवहारप्रवर्णनफलः। नचाक्षाश्रितगुणलिङ्गसम्बन्धः प्रत्यक्षतः प्रतिपन्नो, येन

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 200