Book Title: Sammatyakhya Prakaranam Author(s): Siddhasen Divakarsuri Publisher: Unknown View full book textPage 2
________________ सम्मतिताख्यप्रकरणस्यरप्यवाप्तामलकेवलज्ञानसंपद्भिस्तीर्थकृद्भिः शासनार्थाभिव्यक्तिकरणसमये विहितस्तवत्त्वाच्छासनमतिशयतः स्तवाहमिति निश्चिन्वन्नसाधारणगुणोत्कीर्तनस्वरूपएव च पारमार्थिकस्तव इति च संप्रधार्य शासनस्याभीष्टदेवताविशेषस्य प्रधानभूतसिद्धत्वकुसमयविशासिलाहित्प्रणीतलादिगुणप्रकाशनद्वारेण स्तवाभिधायिका गाथामाह सिहं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥१॥ अस्याश्च समुदायार्थ एतत्पातनिकयैव प्रकाशितोऽवयवार्थस्तु प्रकाश्यते । शास्यन्ते जीवादयः पदार्था यथावस्थितत्वेनानेनेति शासनं द्वादशाङ्गम् । तच्च सिद्ध प्रतिष्ठितं निश्चितप्रामाण्यमिति यावत् ; स्वमहिम्नैव, नातः प्रकरणात्प्रतिष्ठाप्यम् ॥ अत्राहुर्मीमांसकाः॥अर्थतथात्वप्रकाशको ज्ञातृव्यापारः प्रमाणम् ; तस्यार्थतथात्वप्रकाशकलं प्रामाण्यम् । तच्च स्वतः उत्पत्ती, स्वकार्ये यथावस्थितार्थपरिच्छेदलक्षणे, स्त्रज्ञाने च । विज्ञानोत्पादकसामग्रीव्यतिरिक्तगुणादिसामग्यन्तर-प्रमाणान्तरस्वसंवेदनग्रहणानपेक्षत्वात् । अपेक्षात्रयरहितं च प्रामाण्यं स्वत उच्यते। अत्र च प्रयोगः । ये यद्भावं प्रत्यनपेक्षास्ते तत्स्वरूपनियताः । यथाऽविकला कारणसामग्यङ्कुरोत्पादने । अनपेक्ष्यं च प्रामाण्यमुत्पत्ती, स्वकार्ये, ज्ञप्तौ च इति ॥ - अत्र परतःप्रामाण्यवादिनःप्रेरयन्ति॥ अनपेक्षत्वमसिद्धम्। तथाहि । उत्पत्तौ तावत्प्रामाण्यं विज्ञानोत्पादककारणव्यतिरिक्तगुणादिकारणान्तरसापेक्षम् । तदन्वयव्यतिरेकानुविधायित्वात्। तथाच प्रयोगः। यच्चक्षुराद्यतिरिक्तभावाभावानुविधायि, तत् तत्सापेक्षम् ; यथाऽप्रामाण्यम्। चक्षुराद्यतिरिक्तभावाभावानुविधायि च प्रामाण्यमिति स्वभावहेतुः; तस्मादुत्पत्तौ परतः॥तथा खकार्ये च सापेक्षत्वात्परतः।तथाहि । ये प्रतीक्षितप्रत्ययान्तरोदया न ते खतो व्यवस्थितधर्मकाः; यथाऽप्रामाण्यादयः। प्रतीक्षितप्रत्ययान्तरोदयं च प्रामाण्यं तत्रेति विरुद्धव्याप्तोपलब्धिः ॥ तथा ज्ञप्तौ च सापेक्षवात्परतः । तथाहि । ये सन्देहविपर्ययाध्यासिततनवस्ते परतो निश्चितयथावस्थितस्वरूपाः; यथा स्थाण्वादयः । तथा च सन्देहविपर्ययाध्यासितखभाव केषाश्चित्प्रत्ययानांप्रामाण्यमिति स्वभावहेतुः ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 200