________________
२५
तत्त्वबोधविधायिनी व्याख्या । मर्थक्रियास्थितिरविसंवादनम्' इति । तथा 'प्रामाण्यं व्यवहारेणार्थक्रियालक्षणेन' इति च । तस्माद्यत्प्रमाणस्यात्मभूतमर्थक्रियालक्षणपुरुषार्थाभिधानं फलं, यदर्थोऽयं प्रेक्षावतां प्रयासः; तेन स्वतः सिद्धेन फलान्तरं प्रत्यनङ्गीकृतसाधनान्तरात्मतया 'प्रमाणमविसंवादिज्ञानम्' इति प्रमाणलक्षणविरहिणा साधननिर्भासिज्ञानस्यानुत्क्रान्तरूपफलप्रापणशक्तिस्वरूपस्य प्रामाण्याधिगमेऽनवस्थाप्रेरणा क्रियमाणा परस्यासङ्गतैव लक्ष्यते । यदुक्तम् । अनिश्चितप्रामाण्यादपि साधनज्ञानात्प्रवृत्तावर्थक्रियाज्ञानोत्पत्ताववाप्तफला अपि प्रेक्षावन्तो यथा साधनज्ञानप्रामाण्यविचारणायां मनः प्रणिधति; अन्यथा तत्समानरूपापरसाधनज्ञानप्रामाण्यनिश्चयपूर्विकाऽन्यदा प्रवृत्तिर्न स्यात्; तथाऽर्थक्रियाज्ञानस्यापि प्रामाण्यविचारणायां प्रेक्षावत्तयैव ते आद्रियन्ते; अन्यथाऽसिद्धप्रामाण्यादर्थक्रियाज्ञानात्पूवस्य प्रामाण्यनिश्चय एव न स्यादित्यवाप्तफलत्वमनर्थकमिति । तदप्ययुक्तम् । अर्थक्रियाज्ञानस्य स्वत एव प्रामाण्यम्, साधनस्य तु तजनकत्वेन प्रामाण्यमिति प्रतिपादितत्वात् । यदभ्यधायि । यदि संवादात्पूर्वस्य प्रामाण्यं निश्चीयते तदा ‘श्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः' अपि । तदप्ययुक्तम् । गीतादिविषयायाः श्रोत्रबुद्धेरर्थक्रियानुभवरूपत्वेन स्वत एव प्रामाण्यसिद्धेः । तथा चित्रगतरूपबुद्धेरपि स्वत एव प्रामाण्यसिद्धिः । अर्थक्रियाऽनुभवरूपत्वात्। गन्धस्पर्शरसबुद्धीनां त्वर्थक्रियानुभवरूपत्वं सुप्रसिद्धमेव । यदप्युक्तम् । किमेकविषयं, भिन्नविषयं वा संवादज्ञानं पूर्वस्य प्रामाण्यनिश्चायकमित्यादि । तत्रैकसङ्घातवर्त्तिनो विषयद्वयस्य रूपस्पर्शादिलक्षणस्यैकसामग्यधीनतया परस्परमव्यभिचा. रात् , स्पर्शादिज्ञानं जाग्रदवस्थायामभिवाञ्छितस्पर्शादिव्यतिरेकेणासंभवद्भिन्नविषयमपि स्वविषयाभावेऽप्याशङ्कयमानरूपज्ञानस्य प्रामाण्यं निश्चाययतीति न तत्संगतमेवम् । अतएव रूपाद्यर्थाविनाभावित्वाद् ध्वनीनां तद्विशेषशङ्कायां क्वचिट्ठीणादिरूपप्रतिपत्तौ तद्विशेषशङ्काव्यावृत्तेस्तद्रूपदर्शनसंवादादपि प्रामाण्यनिश्चयः सिद्धो भवति । यच्चोक्तम् । किं संवादज्ञानं साधनज्ञानविषयं तस्य प्रामाण्यं व्यवस्थापयति, उत भिन्नविषयमित्यादि । तदप्यविदितपराभिप्रायस्याभिधानम् । नहि संवादज्ञानं तद्राहकलेन तस्य प्रामाण्यं व्यवस्थापयति, किन्तु तत्का